SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ APA फरणाम सू० ६७४ उपसंहारः ६९३ परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः सविदे मादृशो बालः परीक्षादक्षवव्यधाम् ॥१॥ परीक्षा तर्कः, परि समन्तादशेषविशेषत ईक्षणं यत्रार्थानामिति व्युत्पत्तेः । तस्या मुखं तद्युत्पत्तौ प्रवेशार्थिनां प्रवेशद्वारं शास्त्रमिदं व्यधामहं विहितवादसि । पुनस्तद्विशेष-५ णमादर्शमित्याद्याह । आदर्शधर्मसद्भावादिदमवादः । यथैव हादशः शरीरालङ्कारार्थिनां तन्मुखमण्डनादिकं विरूपकं हेयत्वेन सुरूपकं चोपादेयत्वेन सुस्पष्टमादर्शयति तथेदमपि शास्त्रं हेयोपादेयतत्त्वे तथात्वेन प्रस्पष्मादर्शयतीत्यादर्श इत्यभिधीयते । तदीदृशं शास्त्रं किमर्थ विहितवान् भवानित्याह । संविदे । कस्ये-१० त्याह मादृशः। कीदृशो भवान् यत्सदृशस्य संवित्त्यर्थ शास्त्रमिदमारभ्यते इत्याह-वालः। एतदुक्तं भवति-यो मत्सद्दशोऽल्पप्रशस्तस्य हेयोपादेयतत्त्वसंविदे शास्त्रमिदमारभ्यते इति । किंवत् ? परीक्षादक्षवत् । यथा परीक्षादक्षो महाप्रज्ञः स्वसदृशशिष्यव्युत्पादनार्थ विशिष्टं शास्त्रं विदधाति तथाहमपीदं विहि-१५ तवानिति ननु चाल्पप्रशस्य कथं परीक्षादक्षवत् प्रारब्धैवंविधविशिष्टशास्त्र निर्वहणं तखिन्वा कथमल्पप्रज्ञत्वं परस्परविरोधात्? इत्यप्यचोद्यम्; औद्धत्यपरिहारमात्रस्यैवैवमात्मनो ग्रन्थकृता प्रदर्शनात् । विशिष्टप्रज्ञासद्भावस्तु विशिष्टशास्त्रलक्षणकार्योपलम्भादेवास्याऽवसीयते । न खलु विशिष्टं कार्यमविशिष्टादेव कार-२० णात् प्रादुर्भावमहत्यतिप्रसङ्गात् । मादृशोऽवाल इत्यत्र नञ् वा द्रष्टव्यः । तेनायमर्थः-यो मत्सद्दशोऽवालोऽनल्पप्रज्ञस्तस्य हेयोपादेयतत्त्वसंविदे शास्त्रमिदमहं विहितवान् । यथा परीक्षादक्षः परीक्षादक्षार्थ विशिष्टशास्त्रं विधातीति । ननु चानल्पप्रज्ञस्य तत्संवित्तेर्भवत इव खतः सम्भवात्तं प्रति शास्त्रविधानं व्यर्थमेव:२५ इत्यप्यसुन्दरम्; तब्रहणेऽनल्पप्रज्ञासद्भावस्य विशिष्य विवक्षितत्वात् । यथा ह्यहं तत्करणेऽनल्पप्रशस्तज्ज्ञस्तथा तद्हणे योऽनल्पप्रज्ञस्तं प्रतीदं शास्त्रं विहितम् । यस्तु शास्त्रान्तरद्वारेणावगतहेयोपादेयस्वरूपो न तं प्रतीत्यर्थ इति । इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे ३० षष्ठः परिच्छेदः समाप्तः ॥ छ । १ संशानाय । २ श्रीमदकलङ्कदेवः। ३ तद्हणरूपे ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy