SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे ६. नयपरिक स्यों वर्ततेऽस्येदं पत्रं वाचकममात्त्वयायमों वादकाले प्रतिपत्तव्यः' इति सङ्केतं विदधाति । तथा तद्विधाने वा किं पत्रदानेन ? केवलमेवं वक्तव्यम्-'अर्थों मम चेतसि वर्तते, अन त्वया साधनं दूषणं वा वक्तव्यम्' इति । दृश्यन्ते साम्प्रतमप्यऽमत्सराः ५ सन्त एवं वदन्त:-'शब्दो नित्योऽनित्य इति वाऽस्माकं मनसि प्रतिभाति, तत्र यदि भवतां दूषणाद्यभिधाने सामर्थ्यमस्ति यामः सभ्यान्तिकम्' इति । कालान्तरेऽविस्मरणार्थ तहानं चेत्, तहगूढं पत्रं दातव्यम्, इतरथा तदानेपि विस्मरणसम्भवे किं कर्त व्यम् ? विस्मर्तुर्निग्रहश्चेत् ; न; पूर्वसङ्केतविधानवैयर्थ्यप्रसङ्गात् । न १० तत्प्रसङ्गः प्रतिवादिनः पत्रार्थपरिज्ञानार्थत्वात्तस्येति चेत्, तर्हि तत्परिज्ञानार्थ विस्मृतसङ्केतस्य पुनस्तद्विधानमेवास्तु, न तु निग्रहः । यदि च भवञ्चित्ते वर्तमानोप्यर्थः सङ्केतवलेन पत्रा. देव प्रतीयते; तर्हि ततो यः प्रतीयते स तदर्थो न मनस्येव वर्तमानः । यदि पुनः सङ्केतसहायात्पत्रात्तस्य प्रतीतेन तदर्थत्वम् । १५ तर्हि न कश्चित्कस्यचिदर्थः स्यात् सङ्केतमन्तरेण कुतश्चिच्छब्दादर्थाऽप्रतीतेः । तन्न तहानकाले प्रतिवादिनि सङ्केतः । नापि वादकाले; तथाव्यवहारविरहादेव । किं च वादकालेपि चेद्वादी प्रतिवादिने स्वयं पत्रार्थ निवेद्यति; तर्हि प्रथमं पत्रग्रहीतुरुपन्या सोऽनवसरः स्यात् । तन्नायमपि पक्षः श्रेयान् । २० अथान्यत्र; तर्हि स एव तदर्थज्ञः, इति कथं प्रतिवादी साधनादिकं वदेत् तस्य तदर्थाऽपरिज्ञानात् ? प्रतिवादिनस्तापरिज्ञानं वादिनोभीष्टमेव तदर्थत्वात्पत्रदानस्येति चेत्, तर्हि पत्रमनक्षरं दातव्यमतः सुतरां तदपरिज्ञानसम्भवात् । अशिष्टचेष्टाप्रसङ्गोन्य त्रापि समानः। इति न किञ्चित्प्रागुक्तलक्षणपत्रदानेन प्रयोजनम् । २५ ननु वादप्रवृत्तिः प्रयोजनमस्त्येव-तदाने हि वादः प्रवर्तते, साधनाद्यभिधानं तु मानसार्थे वचनान्तरात्प्रतीयमान इत्यभिधाने तु पराक्रोशमानं लिखित्वा दातव्यं ततोपि वादप्रवृत्तेः सम्भवात् किमतिगूढपत्रविरचनप्रयासेन ? तन्नाद्यपक्षे पत्राव लम्बनं फलवत्। अथ तच्छब्दाद्यः प्रतीयते स तदर्थः; तर्हि खात्पतिता नो ३० रत्नवृष्टिः प्रकृतिप्रत्ययादिप्रपञ्चार्थप्रविभागेन प्रतीयमानस्य पत्रार्थत्वव्यवस्थितेः । अथ नायं तदर्थः, कथमन्यस्तदर्थः स्यात् ? १ प्रतिवादिना । २ तहीति शेषः । ३ सङ्केतितार्थस्य । ४ कर्त्तव्य इति शेषः । ५ पुरुषान्तरे। ६ अन्यः । ७ स्वमनसि व्यवस्थितार्थे । ८ अस्माकम् । ९ सिद्धोऽसदीयः पक्ष इत्यर्थः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy