________________
६८८ प्रमेयकमलमार्तण्डे [६. नयपरि. "युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां साविकासमासते। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मः॥"
[शिशुपालव० १२३ ] न विद्यते ना समवायिकारणभूतो यस्यासावऽना, "ऋण्मो ५(मो.) [जैनेन्द्रव्या० ४।२।१५३] इति कप सान्तो न भवति "सान्तो विधिरनित्यः" [ ] इति परिभाषाश्रयणात् । इनो भानुः । लषणं लट् कान्तिः-"लष् कान्तौ"[
] इति वचनात् । लषा युक् योगो यस्यासौ लड्युक्-चन्द्रः । इनश्च
लड्युक् चेनलड्युक् सूर्याचन्द्रमसौ। कुल मिव कुलं सजातीयार१०म्भकावयवसमूहः। तस्मादुद्भव आत्मलामो यस्यासौ कुलोद्भवः
पृथिव्यादिकार्यद्रव्यसमूहः । 'वा' इत्यनुक्तसमुच्चये, तेनानित्यस्य गुणस्य कर्मणश्च ग्रहणम्। एषःप्रतीयमानः। अतो नाश्रयासिद्धिः। अद्भ्यो हितोऽप्यः-समुद्रादिः। निशायाः कर्म नैश्यमन्धकारादि।
ताप औष्ण्यम् । स्तनतीति स्तन् मेघः। एतेषां द्वन्द्वैकवद्भावः । १५ किम्भूतः स तच्च । न विद्यते ना पुरुषो निमित्तकारणमस्येति ।
रटनं परिभाषणं तस्य लड् विलासः, तं जुषते सेवते इति-"जुषी प्रीतिसेवनयोः"[
] इत्यभिधानात् । अनुरड्लड्जुत् । अत्रापि कवऽभावे निमित्तमुक्तम् ।
अंत्र साध्यधर्ममाह । परापरतत्त्ववित्तदन्य इति । परं पार्थिवा२० दिपरमाण्वादिकारणभूतं वस्तु, अपरं पृथिव्यादिकार्यद्रव्यम् ,
तयोस्तत्त्वं स्वरूपम् , तस्मिन्विद् बुद्धिर्यस्यासौ परापरतत्त्ववित्कार्यकारणविषयबुद्धिमान् पुरुष इत्यर्थः । तस्मात्परोक्तादन्यः परापरतत्त्ववित्तदन्यो बुद्धिमत्कारण इत्यर्थः। यदा नपुंसकेन
सम्बन्धस्तदा परापरतत्त्ववित्तदन्यदिति व्याख्येयम् । कुत एत२५ दित्याह-अनादिरवायनीयत्वत इति । कार्यस्य हेतुरादिस्ततः प्रागेव तस्य भावात् । तस्मादन्योऽनादिः कार्यसन्दोहः । तस्य रवस्तत्प्रतिपादकं कार्यमिति वचनम् । तेनायनीयं प्रतिपाद्यं तस्य भावस्तत्त्वम् , तस्मादनादिरवायनीयत्वतः-'कार्यत्वात्' इत्यर्थः।
एवं यदनादिरवायनीयं तदीर बुद्धिमत्कारणम् । तत्कला अव. ३० यवा भागा इत्यर्थः, सह कलाभिर्वर्तते इति सकला। वित् आत्म
१ तिष्ठन्ति । २ नारायणस्य । ३ प्रकारणात्तपोधनोत्र नारदः । ४ सन्तोषाः । ५ समासान्त इत्यर्थः। ६ हेतोः। ७ अप्यादीनाम् । ८ पुल्लिङ्गनिर्दिष्टः सर्वः नपुंसकलिङ्गनिर्दिष्टं सर्वम्। ९ सामान्यनरः। १० धर्मिणि। ११ अबुद्धि
मत्कारणात् ।