________________
प्रमेयकमलमार्तण्डे [६. नयपरि० । कालादिभेदाद्भिन एवार्थः शब्दस्य । तथाहि-विवादापन्नो विभिन्न कालादिशब्दो विभिन्नार्थप्रतिपादको विभिन्नकालादिशब्दत्वात् तथाविधान्यशब्दवत् । नन्वेवं लोकव्यवहारविरोधः स्यादिति
चेत्; विरुध्यतामसौ तत्त्वं तु मीमांस्यते, न हि भेषजमातुरे५च्छानुवर्ति।
नानार्थान्समेत्याभिमुख्येन रूढः समभिरूढः । शब्दनयो हि पर्यायशब्दभेदान्नार्थभेदमभिप्रैति कालादिभेदत एवार्थभेदाभिप्रायात् । अयं तु पर्यायभेदेनाप्यर्थभेदमभिप्रेति । तथा हि-'इन्द्रः
शक्रः पुरन्दरः' इत्याद्याः शब्दा विभिन्नार्थगोचरा विभिन्नशब्द१० त्वाद्वाजिवारणशब्दवदिति।
एमित्थं विवक्षितक्रियापरिणामप्रकारेण भूतं परिणतमर्थ योभिप्रेति स एवम्भूतो नयः । समभिरूढो हि शकनक्रियायां सत्यामसत्यां च देवराजार्थस्य शक्रव्यपदेशमभिप्रैति, पशोर्गमन. क्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथा रूढेः सद्भावात्, १५ अयं तु शकनक्रियापरिणतिक्षणे एव शक्रमभिप्रेति न पूजनाभिषे. चनक्षणे, अतिप्रसङ्गात् । न चैवंभूतनयाभिप्रायेण कश्चिदक्रियाशब्दोस्ति, 'गौरश्वः' इति जातिशब्दाभिमतानामपि क्रियाशब्द. त्वात्, 'गच्छतीति गौराशुगाम्यश्वः' इति । 'शुक्लो नीलः' इति
गुणशब्दा अपि क्रियाशब्दा एव, 'शुचिभवनाच्छुक्लो नीलना२० नीलः' इति । 'देवदत्तो यज्ञदत्तः' इति यदृच्छाशब्दा अपि क्रिया
शब्दा एव, 'देवा एनं देयासुः' इति देवदत्तः, 'यज्ञे एनं देयात्' इति यज्ञदत्तः । तथा संयोगिसमवायिद्रव्यशब्दाः क्रियाशब्दाः एव, दण्डोस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीति। पञ्चतंयी तु शब्दानां प्रवृत्तिर्व्यवहारमात्रान्न निश्चयात् । २५ एवमेते शब्दसमभिरूद्वैवम्भूतनयाः सापेक्षाः सम्यग् , अन्यो. न्यमनपेक्षास्तु मिथ्येति प्रतिपत्तव्यम् ।
एतेषु च नयेषु ऋजुसूत्रान्ताश्चत्वारोर्थप्रधानाः शेषास्तु त्रयः शब्दप्रधानाःप्रत्यतव्याः। .
१ विश्वदृश्वा भविता करोति क्रियते इत्यादिः। २ रावणशङ्खचक्रवर्त्यादिशब्दवत् । ३ लिङ्गवचनादिभेदेनार्थभेदप्रकारेण । ४ समाश्रित्य । ५ पर्यायभेदात्पदार्थनानात्वप्ररूपकः समभिरूढः। ६ क्रियाश्रयेण भेदप्ररूपणमित्थम्भावोत्र । ७ यथा नमनक्रियां कुर्वतोपि पाचकत्वप्रसङ्गः स्यात् । ८ क्रियाप्रधानतया। ९ अस्तीति क्रियात्र । १० जातिक्रियागुणयदृच्छासम्बन्धवाचकप्रकारेण ।