SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ सू० ६१७४] नयविवेचनम् शब्दो नयः शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ने हि "धातुसम्वन्धे प्रत्ययाः" [पाणि निव्या० ३।४।१] इति सूत्रमारभ्य 'विश्वदृश्वाऽस्य पुत्रो भविता' इत्यत्र कालभेदेप्येकं पदार्थमाताः-'यो विश्वं द्रक्ष्यति सोस्य पुत्रो भविता' इति, भविष्यकालेनातीतकालस्याऽभेदाभिधानात् तथा व्यवहारोपलम्भात् । ५ तच्चानुपपन्नम् ; कालभेदेप्यर्थत्याऽमेदेऽतिप्रसङ्गात् , रावणशङ्खचक्रवर्तिशब्दयोरप्यतीतानागतार्थनचरयोरेकार्थतापत्तेः । अथानयोभिन्नविषयत्वान्नैकार्थता, 'विश्वश्या भविता' इत्यनयोरप्यसौ मा भूत्तत एव । न खलु 'विश्वं दृष्टवान्-विश्वदृश्वा' इति शब्दस्य योऽर्थोतीतकालः, स 'भविता' इति शब्दस्यानागतकालो १० युक्तः, पुत्रस्य भाविनोऽतीतत्वविरोधात् । अतीतकालस्याप्यनागतत्वाध्यारोपादेकार्थत्वे तु न परमार्थतः कालभेदेप्यभिन्नार्थव्यवस्था स्यात्। तथा 'करोति क्रियते' इति कर्तकर्मकारक भेदेप्यभिन्नमर्थ ते एवाद्रियन्ते । 'यः करोति किञ्चित् स एव क्रियते केनचित्' इति १५ प्रतीतेः । तदप्यसाम्प्रतम् ; 'देवदत्तः कटं करोति' इत्यत्रापि कर्तृकर्मणोदेवदत्तकटयोरभेदप्रसङ्गात् । तथा, 'पुष्यस्तारका' इत्यत्र लिङ्गभेदेपि नक्षत्रार्थमेकमेवाद्रियन्ते, लिङ्गमशिष्यं लोकाश्रयत्वात्तस्यः इत्यसङ्गतम् ; 'पटः कुटी' इत्यत्राप्येकत्वानुषङ्गात् । २० ___ तथा, 'आपोऽम्भः' इत्यत्र संख्यामेदेप्येकमर्थ जलाख्यं मन्यन्ते, संख्याभेदस्याऽभेदकत्वाहादिवत् । तदप्ययुक्तम् ; 'पटस्तन्तवः' इत्यत्राप्येकत्वानुषङ्गात् । तथा 'एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता' इति साधनभेदेप्याऽभेदमाद्रियन्ते "प्रहासे मन्यवाचि युष्मन्म-२५ न्यतेऽस्मदेकवच" [जैनेन्द्रव्या० १०२।१५३] इत्यभिधानात् । तद्प्यपेशलम् ; 'अहं पचामि त्वं पचसि' इत्यत्राप्येकार्थत्वप्रसङ्गात् । तथा, 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रोपग्रहभेदेप्यामेदं प्रतिपद्यन्ते उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात् । तदप्यचार, 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः३० १ कालादिभेदाद्भिन्नमर्थ प्रतिपादयति शब्दो नयो यतः। २ शब्दभेदादर्थभेदमकुर्वताम्। ३ प्रतिशावन्तः। ४ अत एवावीतार्थको विश्वदृश्वशब्दो द्रक्ष्यतीति वय॑त्कालेन विगृह्यते । ५ वैयाकरणाः । ६ वैयाकरणाः । ७ आदिना लघ्वादिग्रहः। ८ जैनेन्द्रव्याकरणस्य सूत्रम् । मूल'क' पुस्तके 'प्रहसे' इति पाठोस्ति । ९ वैयाकरणाः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy