________________
सू० ६१७४ } नयविवेचनम्
६७७ र्याय ओदनपर्यायो वा निष्पन्नलन्निप्पत्तये सङ्कल्पमात्रे प्रस्थादिव्यवहारात् । यद्वा नैकङ्गमो नैगमो धर्मधर्मिणोर्गुणेप्रधानभावेन विषयीकरणात् । 'जीवगुणः सुखम्' इत्यत्र हि जीवस्याप्राधान्यं विशेषणत्वात् , सुखस्य तु प्राधान्यं विशेष(ग्यत्वात् । 'सुखी जीवः' इत्यादौ तु जीवस्य प्राधान्य न सुखादेविपर्ययात् । न चास्यैवं ५ प्रमाणात्मकत्वानुपङ्गः, धर्मधर्मिणोः प्राधान्येनात्र शप्तेरसम्भवात् । तयोरन्यतैर एव हि नैगमनयेन प्रधानतयानुभूयते। प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्धिज्ञानं प्रमाण प्रतिपत्तव्यं नान्यदिति।
सर्वथानयोरर्थान्तरत्वाभिसन्धिस्तु नैगमाभासः। धर्मधर्मिणोः १० सर्वथार्थान्तरत्वे धर्मिणि धर्माणां वृत्तिविरोधस्य प्रतिपादितत्वादिति।
खात्यविरोधेनैकँध्यमुपनीयार्थानाक्रान्तभेदान् समस्तग्रहणात्संग्रहः। स च परोऽपरश्च । तत्र परः सकलभावानां सदात्मनेकत्वमभिप्रैति । 'सर्वमेकं सदविशेषात्' इत्युक्ते हि 'सत्' इति-१५ वोग्विज्ञानानुवृत्तिलिङ्गानुमितसत्तात्मकत्वेनैकत्वमशेपार्थानां संगृह्यते । निराकृताऽशेषविशेषस्तु सत्ताऽद्वैताभिप्रायस्तैदाभासो दृष्टेष्टवाधनात् । तथाऽपरः संग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिप्रेति । 'द्रव्यम्' इत्युक्ते ह्यतीतानागतवर्तमान कालवर्तिविवक्षिताविवक्षितपर्यायवणशीलानां जीवाजीवतद्भेदप्रभेदानामेक-२० त्वेन संग्रहः । तथा 'घटः' इत्युक्ते निखिलघटव्यक्तीनां घटत्वेनैकत्वसंग्रहः।
सामान्यविशेषाणां सर्वथार्थान्तरत्वाभिप्रायोऽनर्थान्तरत्वाभिप्रायो वाऽपरसङ्ग्रहाभालः, प्रतीतिविरोधादिति।
सङ्ग्रहगृहीतार्थानां विधिपूर्वकमबहरणं विभजनं भेदेन प्ररूपणं २५ व्यवहारः । परसंग्रहेण हि सद्धर्माधारतया सर्वमेकत्वेन 'सत्' इति संगृहीतम् । व्यवहारस्तु तद्विभागमभिप्रेति । यत्सत्तद्रव्यं
१२
१ अन्योन्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः। २ गौणमुख्यरूपेण । ३ धर्मों धर्मी वा। ४ अभिप्रायः। ५ भिन्नत्वे । ६ स्वस्यार्थस्य जातिः सदात्मिका । ७ एकप्रकारम् । ८ अन्तलीनविशेषान्। ९ प्रति। १० वस्तूनाम् । ११ विषयी. करोति । १२ द्वन्दः। १३ इदं सदिदं सदिति। १४ एता एव लिङ्गं तेन । १५ ब्रह्मवादः। १६ सङ्ग्रहाभासः। १७ दृष्टेन प्रत्यक्षेणेष्टेनानुमानेन च । १८ परि. णमनस्वभावानाम् । १९ विशेषस्य सव्यपेक्षः सन्मात्रग्राही सङ्ग्रहः । २० भेदरूपेण । २१ अभेदरूपेण । २२ योगस्य मीमांसकस्य च ।