SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ श्री। अथ षष्ठः परिच्छेदः॥ प्राचां वाचाममृततटिनीपूरकर्पूरकल्पान् , बन्धान(न्म)न्दा नवकुकवयो नूतनीकुर्वते ये। तेऽयस्काराः सुभटमुकुटोत्पाटिपाण्डित्यभाजम् , भित्त्वा खड्गं विद्धति नवं पश्य कुण्ठं कुठारम् ॥ ५ ननूक्तं प्रमाणेतरयोर्लक्षणमधुणं नयेतरयोस्तु लक्षणं नोक्तम्, तञ्चावश्यं वक्तव्यम् , तवचने विनेयानां नाऽविकला व्युत्पत्तिः स्यात् इत्याशङ्कमानं प्रत्याह सम्भवदन्यद्विचारणीयम् ॥ ६७४ ॥ इति। १० सम्भवद्विद्यमानं कथितात्प्रमाणतदाभासलक्षणादन्यत् नय नयाभासयोर्लक्षणं विचारणीयं नयनिष्ठैदिग्मात्रप्रदर्शनपरत्वादस्य प्रयासस्येति । तल्लक्षणं च सामान्यतो विशेषतश्च सम्भवतीति तथैव तद्वद्युत्पाद्यते । तत्राऽनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातुं रभिप्रायो नयः । निराकृतप्रतिपक्षस्तु नयाभासः । इत्यनयोः १५ सामान्यलक्षणम् । स च द्वेधा द्रव्यार्थिक-पर्यायार्थिकविकल्पात् । द्व्यमेवार्थो विषयो यस्यास्ति स द्रव्यार्थिकः । पर्याय एवार्थों यस्यास्त्यसौ पर्यायार्थिकः । इति नयविशेषलक्षणम् । तत्राद्यो नैगमसङ्ग्रहव्यवहारविकल्पात् त्रिविधः । द्वितीयस्तु ऋजुसूत्र शब्दसमभिरूढैवंभूतविकल्पाच्चतुर्विधः। २० तत्रानिष्पन्नार्थसङ्कल्पमात्रग्राही नैगमः। निगमो हि सङ्कल्पः, तत्र भवस्तत्प्रयोजनो वा नैगमः । यथा कश्चित्पुरुषो गृहीतकुठारो गच्छन् 'किमर्थं भवान्गच्छति' इति पृष्टः सन्नाह-प्रेस्थमानेतुम्' इति । एंधोदकाद्याहरणे वा व्याप्रियमाणः "किं करोति भवान्' इति पृष्टः प्राह-'ओदनं पचामि' इति । न चासौ प्रस्थप १ कल्पः सदृशः। २ 'बन्धान्' इति विशेष्यपदमध्याहार्यम् । ३ परीक्षामुखस्य । ४ प्रकरणस्य । ५ विकलादेशविशेषमाश्रित्य प्रवृत्तो शातुरभिप्रायो ( शानस्वरूपः) नयः । ६ सामान्यलक्षणलक्षितो नयः। ७ द्रवति द्रोष्यत्यऽदुद्रुवच्चेति द्रव्यं जीवादि। ८ जीवस्य यथा नरनारकादिः सुखदुःखादि । ९ प्रस्थो मानविशेषः। १० एधःकाष्ठम् । दकमुदकम्।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy