SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ सू० ६.७३] जय-पराजयव्यवस्था रिसमातेः। तथा हि । अहङ्कारग्रहग्रस्तानां मर्यादातिक्रमेण चर्चमानानां शक्तित्रयसमन्वितौदासीन्यादिगुणोपेतसभापतिमन्तरेण "अपक्षपतिताः प्राज्ञा सिद्धान्तद्वर्यवेदिनः । असद्वादनिषेद्धारः प्राश्निकाः ग्रॅहा इव।" इत्येवंविधप्राश्निकांश्च विना को नाम नियामकः स्यात् ? प्रमाणतदाभासपरि-५ ज्ञानसामोपेतवादिप्रतिवादिभ्यां च चिन्ता कथं वादः प्रवर्तेत ? ननु चास्तु चतुरङ्गता वादया। जयेतरव्यवस्था नु छलजातिनिग्रहस्थातैरेव न पुनः प्रमाणतदाभासयोर्दुष्टतयोद्भावितयोः परिहतापरिहृतदोषमात्रेण; इत्यप्यपेशलम् ; छलादीनामसदुन्तरत्वेन वपरपक्षयोः साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानि-१० बन्धनत्वायोगात् । ततः परेषां सामान्यतो विशेषतश्च छलादीनां लक्षणप्रणयनमयुक्तमेव। तत्र सामान्यतश्छललक्षणम् - "वचनविधातोर्थविकल्पोपंपत्त्या छलम्" [न्यायसू० ११२।१०] इति । "तत्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च"१५ [न्यायसू० ०२।११] इति! तत्र वाक्छललक्षणं तेषाम्-"अविशेषाभिहितेथे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्" [ न्यायसू० २२११२ ] इति । अस्योदाहरणम्-'आढ्यो वै वैधवेयोयं वर्तते नवकम्वलः' इत्युक्ते प्रत्यवस्थानम् कुतोस्य नव कम्बलाः ? नवकम्बलशब्दे हि सामा-२० न्यवाचिन्यत्र प्रयुक्ते 'नवोस्य कम्बलो जीणों नैव' इत्यभिप्रायो वक्तुः, तस्मादन्यस्यासम्भाव्यमानार्थस्य कल्पना नव अस्य कम्वला नाष्टौ' इति । एवं प्रत्यवस्थातुरन्यायवादित्वात्पराजयः। न खलु प्रेक्षावतां तत्त्वपरीक्षायां छलेन प्रत्यवस्थानं युक्तमिति योगा, तेप्यतत्त्वज्ञाः; यतो यद्येतावतैव जिगीषुर्निगृह्येत तर्हि पत्रवाक्य-२५ मनेकार्थे व्याचक्षाणोपि निगृह्यताम् । न चैवम् । यत्र हि पक्षे वादिप्रतिवादिनोविप्रतिपत्त्या प्रवृत्तिस्तत्सिद्धरेवैकस्य जयोन्यस्य पराजयः न त्वनेकार्थत्वप्रतिपादनमात्रम् । एवं च 'आढ्यो वै १ प्रभूत्साहमत्रभेदात् । २ उदासीनःपक्षपातरहितः। ३ आदिना पापभीरतादि. संग्रहः । ४ वादिप्रतिवादिनोः। ५ शकटोपयुक्तबलीवईद्वन्द्वधरणराशय (बलीवर्दावरोधकरजवः) इव। ६ इति चतुरङ्गत्वं सिद्धं वादस्य । ७ इति चातुर्विध्यम् । ८ छलजात्यादिवादिनाम् । ९ न मुखपिधानेन । १० प्रतिवादिना । ११ दूषणदातुः प्रतिवादिनः। १२ गुरुशिष्याणाम् । १३ ब्रुवन्ति । १४ अनेकार्थप्रतिपादनमात्रेण । १५ छलवादी। प्र.क० मा० ५५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy