SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ . प्रमेयकमलमार्तण्डे [५. तदाभासपरि० एकाधिकरणाविति, नानाधिकरणौ विचार न प्रयोजयत उभयोः प्रमाणोपपत्ते, तद्यथा-अनित्या वुद्धिनित्य आत्मेति । अविरुद्धा. वैप्येवं विचारं न प्रयोजयतः, तद्यथा-क्रियावद्रव्यं गुणवच्चेति । एककालाविति, भिन्नकालयोर्विचाराप्रयोजकत्वं प्रमाणोपपत्तेः, ५यथा क्रियावद्रव्यं निष्क्रियं च कालभेदे सति । तथाऽवसितौ विचारं न प्रयोजयतः; निश्चयोत्तरकालं विवादाभावादित्यनवसितौ तौ निर्दिष्टौ । एवंविशेषणौ धौ पक्षप्रतिपक्षौ । तयोः परिग्रह इत्थंभावनियमः ‘एवंधर्मायं धर्मी नैर्वधर्मा' इति च । ततः प्रमाणतर्कसाधनोपालम्भत्वविशेषणस्य पक्षप्रतिपक्षपरि२० ग्रहस्य जल्पवितण्डयोरसम्भवात् सिद्धं वादस्यैव तत्त्वाध्यवसा. यसंरक्षणार्थत्वं लाभपूजाख्यातिवत् । तत्वस्याध्यवसायो हि निश्चयस्तस्य संरक्षण न्यायबलान्निखिलबाधकनिराकरणम् , न पुनस्तत्र वाधकमुद्भावयतो यथाकथञ्चिनिर्मुखीकरणं लकुटचपेटादिभिस्तन्यकरणस्यापि तत्त्वाध्यवसाय. १५संरक्षणार्थत्वानुषङ्गात् । न च जल्पवितण्डाभ्यां निखिलबाधक निराकरणम् ; छलजात्युपक्रमपरतया ताभ्यां संशयस्य विपर्ययस्य वा जननात् । तत्वाध्यवसाये सत्यपि हि परनिर्मुखीकरणे प्रवृत्ती प्राश्निकास्तत्र संशेरते विपर्ययस्यन्ति वा-'किमस्य तत्त्वाध्यवसा योस्ति किं वा नास्तीति, नास्त्येवेति वा' परनिर्मुखीकरणमात्रे २० तत्त्वाध्यवसायरहितस्यापि प्रवृत्त्युपलम्भात् तत्त्वोपप्लववादिवत् । तथा चाख्यातिरेवाल्य प्रेक्षावत्सु स्यादिति कुतः पूजा लामो वा? ततः सिद्धश्चतुरङ्गो वादः स्वाभिप्रेतार्थव्यवस्थापनफलत्वादादत्वाद्वा लोकप्रख्यातवादद्वत् । एकाङ्गस्यापि वैकल्ये प्रस्तुतार्थाऽप. १ एकाश्रयौ नित्यानित्यलक्षणौ यथा। २ प्रवयते यत इत्यध्याहार्यम् । ३ प्रति। ४ वादिप्रतिवादिनौ । ५ नानाधिकरणयोर्वस्तुधर्मयोः । ६ वस्तुधर्मदयस्यैकाधिकरणत्वे सति विचारो भवति, न तु नानाधिकरणे सतीति भावः। ७ अनित्यस्य बुझ्यधिकरणं नित्यस्य त्वात्माधिकरणम् , अत्र यथा प्रमाणोपपत्तेर्विचारो न स्यात् । ८ वादिप्रतिवादिनौ । ९ वादिप्रतिवादिनोः । १० प्रति । ११ अनित्यलक्षणः । १२ शब्दादिः । १३ नित्यलक्षणः । १४ प्रमाणतर्काभ्यां पक्षप्रतिपक्षौ साधनोपालम्भस्वरूपी जल्पवितण्डयोन भवतस्तत्र तयोविचारत्वात् । १५ लाभपूजाख्यातयो यथा वादस्यैव । १६ बाधक विरुद्धप्रमाणम् । १७ तस्य परस्य । १८ जल्पवितण्डाभ्यां निखिलबाधकनिराकरण भविष्यतीत्युक्ते सत्याह । १९ उपक्रमः प्रस्तावः । २० परः प्रतिवादी। २१ सत्याम् । -२२ सन्देहं कुर्वन्ति । २३ तत्त्वाध्यवसायाभावेन । २४ अप्रसिद्धिः। २५ वादिनः। २६ हेतोः। २७ चतुरङ्गत्वाभावसाधनमविजिगीषुविषयत्वसाधनं तत्वाध्यवसायसंरक्षणार्थरहितत्वसाधनमसिद्धं यतः । २८ सन्दिग्धानकान्तिकस्वपरिहारमाह। ..
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy