________________
६२७
सू० ५१३] फलस्वरूपविचारः हि काष्ठादेश्छिदा निरूप्यमाणा छेद्यद्रव्यानुप्रवेशलक्षणैवावतिष्ठते । स चानुप्रवेशो वास्यादेरात्मगत एव धर्मो नार्थान्तरम् । ननु छिदा काष्ठस्था वास्यादिस्तु देवदत्तस्थ इत्यनयो द एव; इत्यप्यसुन्दरम्; सर्वथा मेदस्सर्वमासिद्धेः, सत्त्वादिनाऽमेदस्यापि प्रतीतेः। न च सर्वथा करणाभिन्नैव क्रिया' इति नियमोस्तैि;५ 'प्रदीपः स्वात्मनात्मानं प्रकाशयति' इत्यत्राभेदेनान्यस्याः प्रतीतेः। न खलु प्रदीपात्मा प्रदीपादिन्नः तस्याऽप्रदीयत्वासझाद पटवत् । प्रदीऐ प्रदीपात्मनो भिन्नस्यापि समवायात्प्रदीपत्वसिद्धिरिति चेत्, न; अप्रदीपेपि घटादौ प्रदीपत्वसमवायानुपङ्गात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत् ल १० कोऽन्योन्यत्र कथञ्चित्तादात्म्यात् ।
एतेन प्रकाशनक्रियाया अपि प्रदीपात्मकत्वं प्रतिपादितं प्रतिपत्तव्यम् । तस्यास्ततो भेदे प्रदीपस्याऽप्रकाशकद्रव्यत्वानुपङ्गात् । तत्रास्याः समवायान्नायं दोषः; इत्यप्यसमीचीनम् ; अनन्तरोकाऽशेषदोषानुषङ्गात् । तन्नानयोरात्यन्तिको भेदः। १५
नाप्यभेदः, तद्ऽव्यवस्थानुषङ्गात् । न खलु सारूप्यमय प्रमाणमधिगतिः फलम्' इति लर्वथा तादात्ल्ये व्यवस्थापयितुं शक्यं विरोधात् ।
ननु सर्वथाऽभेदेप्यनयोावृत्तिमेदात्प्रमाणफलव्यवस्था घटते एव, अप्रमाणव्यावृत्त्या हि ज्ञानं प्रमाणमफलव्यावृत्या च फलम् : २० इत्यप्यविचारितरमणीयम्; परमार्थतः स्खेष्टसिद्धिविरोधात् । न च स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदोप्युपपद्यते इत्युक्तं सारूप्यविचारे । कथं चास्याऽप्रमाणफलव्यावृत्त्या प्रमाणफलव्यवस्थावत् प्रमाणफलान्तरव्यावृत्त्याऽप्रमाणफलव्यवस्थापि न स्यात् ? ततः पारमार्थिक प्रमाणफले प्रतीतिसिद्ध कथञ्चिद्भिन्ने प्रतिपत्तव्ये २५ प्रमाणफलव्यवस्थान्यथानुपपत्तेरिति स्थितम् ।
१ दृश्यमाना क्रियमाणा वा। २ भिन्नाधिकरणत्वेन। ३ लोके । ४ आत्मा खरूपं प्रदीपत्वमिति यावत् । ५ अन्यथा। ६ प्रदीपप्रदीपात्मनोरमेदप्रतिपादनेन। ७ प्रमाणफलयोः। ८ सौगतमाशङ्कयोच्यते। ९ अर्थेन सादृश्यं प्रमाणम् । १० निर्विकल्पकज्ञानस्य । ११ स्वेष्टः प्रमाणफलयोर्भेदः । १२ पारमाथिककथञ्चिद्भिन्नत्वव्यतिरेकेण ।