SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ६२० प्रमेयकमलमार्तण्डे [४. विषयपरि० प्रसिद्धम् , तत्वरूपस्याध्यक्षाद्यगोचरत्वप्रतिपादनात् । 'समवा. योन्येने संवध्यमानो न स्वतः संबध्यते संवध्यमानात्वाद्रपादिवत्' इत्यनुमानविरोधाच्च । यदि चाग्निप्रदीपगङ्गोदकादीनामुष्ण प्रकाशपवित्रतावत्समवायः स्वपरयोः सम्वन्धहेतुः; तर्हि तदृष्टा५न्तावष्टंम्भेनैव ज्ञानं स्वपरयोः प्रकाशहेतुः किन्न स्यात् ? तथाच "ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात्" [ ] इति प्लवते। यच्चोच्यते-'समवायः सम्बन्धान्तरं नापेक्षते, खतः सम्वन्धत्वात् , ये तु सम्वन्धान्तरमपेक्षन्ते न ते स्वतः सम्वन्धाः यथा घटा दयः, न चायं न स्वतः सम्वन्धः, तस्मात्सम्बन्धान्तरं नापेक्षते इतिः १० तदपि मनोरथमात्रम् ; हेतोरसिद्धः। न हि समवायस्य स्वरूपासिद्धौ स्वतः सम्वन्धत्वं तत्र सिध्यति । संयोगेनानेकान्ताच; स हि स्वतः सम्बन्धः सम्वन्धान्तरं चापेक्षते । न हि स्वतोऽसम्वन्धस्वभावत्वे संयोगादेः परतस्तयुक्तम् ; अतिप्रसङ्गात् । घंटादीनां च सम्वन्धित्वान्न परतोपि सम्बन्धत्वम् । इत्ययुक्तमुक्तम्-'न ते १५ स्वतःसम्बन्धाः' इति । तन्नास्य स्वतः सम्बन्धो युक्तः। परतश्चेत्किं संयोगात्, समवायान्तरात्, विशेषणभावात्, अदृष्टाद्वा? न तावत्संयोगात्; तस्य गुणत्वेन द्रव्याश्रयत्वात् , समवायस्य चाद्रव्यत्वात् । नापि समवायान्तरात्; तस्यैकरूपतयाभ्युपगौत्, “तत्त्वं भावेन" व्याख्यातम् [वैशे० सू० २०७२।२८] इत्यभिधानात् । नापि विशेषणभावात् ; सम्वन्धान्तभिसम्वद्धार्थेष्वेवास्य प्रवृत्तिप्रतीतेर्दण्डविशिष्टः पुरुष इत्यादिवत्, अन्यथा सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् । समवायादिसम्बन्धानर्थक्यं च, तद् भावेपि गुणगुण्यादिभावोपपत्तेः । समवायस्य समवायिविशे२५षणतानुपपत्तिश्च, अत्यन्तमर्थान्तरत्वेनातद्धर्मत्वादाकाशवत् । न खलु 'संयुक्ताविमौ' इत्यत्र संयोगिधर्मतामन्तरेण संयोगस्य १ तस्य समवायस्य । २ तन्तुपटादिलक्षणसंबन्धिना सह । ३ समवायसमवायिनोः । ४ अवष्टम्भोऽवलम्बः साहाय्यं वा । ५ स्वतःसंबन्धत्वादिति हेतोः। ६ न केवलं हेतोरसिद्धरेव । ७ आदिना संयुक्तसमवायादिसंबन्धग्रहणम् । ८ समवायात् । ९ तत्-संबन्धत्वम् । १० दृष्टान्तभूतानाम् । ११ संयोगात्। १२ 'समवायस्य संबन्धः स्वसमवायिषु' इति शेषः । १३ समवायस्य । १४ परेण । १५ एकत्वम् । १६ सत्तया। १७ संबन्धान्तरं तादात्म्यसंयोगादि । समवायसमवायिलक्षणेष्वित्यपरा टिप्पणी। १८ विशेषणभावस्य । १९ अतद्धर्मत्वं च स्यात्समवायिनां विशेषणत्वं च स्यादिति सन्दिग्धानकान्तिकत्वपरिहारार्थमिदमाह ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy