________________
६१८
प्रमेयकमलमार्तण्डे [४. विषयपरि० भिधानयोजनारहितं प्रतिभाति, संकेतवशाच्चैतत्सर्व ज्ञानात यादि । स्वशास्त्रजनितसंस्कारवशाद्विज्ञानाद्वयादिप्रतिमासोऽन माणम् ; इत्यन्यत्रापि समानम् । न हि तत्रापि स्वशास्त्रसंस्काराहते 'समवायी' इति ज्ञानमनुभवत्यन्यजनः। न चैवच्छास्त्रमप्रमाण५. सेतच प्रमाणमिति प्रेक्षावतां वक्तुं युक्तमविशेषात् ।
समवाय इति प्रत्ययेनानैकान्तिकश्चार्य हेतुः; स हि विशेष्यप्रत्ययो न च विशेषणमपेक्षते । अथात्र समवायिनो विशेषणम् । नन्वस्तु तेषां विशेषणत्वं यत्र 'समवायिनां समवायः' इति प्रतिभासते, यत्र तु'समवायः' इत्येतावाननुभवस्तत्र किं विशेषणमिति १०चिन्त्यताम् ? अथ विशेषणाभावान्नेदं विशेष्यज्ञानम् ; तन्यिस्य विशेष्यस्यात्रासंभवाद्विशेषणज्ञानमपि तन्मा भूत् । न चैतंयुक्तम्। कथं चैवं 'पटः' इति प्रत्ययो विशेष्यः स्यात् विशेषणाभावाविशेषात् ? अथात्र पटत्वं विशेषणम् , तर्हि 'समवायः' इति
प्रत्यये किं विशेषणम् ? न तावत्समवायत्वम् ; अनभ्युपगमात् । १५ अथ येन सता विशिष्टः प्रत्ययो जायते तद्विशेषणम् , तत्र
'समवायः' इति प्रत्ययोत्पादे समवायत्वसामान्यस्यानभ्युपगमात्, ,व्यादेश्चाप्रतिभासनादृष्टस्यैव विशेषणत्वमिति; तन्न यतः किं येन सता विशेष्यज्ञानमुत्पद्यते तद्विशेषणम् , किं वा
यस्यानुरागः प्रतिभाँसते तदिति ? प्रथमपक्षे चक्षुरालोकादेरपि २० तदनिवार्यम् । अथ यस्यानुरागस्तद्विशेषणम् ; न तर्हि 'दण्डी'
इति प्रत्यये दण्डवद्दण्डशब्दोल्लेखेन 'समवायः' इति प्रत्ययेप्यदृष्टस्य तच्छब्दयोजनाद्वारेणानुरागं जनो मन्यते । तथाप्यदृष्टस्य विशेषणत्वकल्पनायाम् 'दण्डी' इत्यादिप्रत्ययेप्यस्यैव तत्कल्प
नास्तु किं द्रव्यादेविशेषणभावकल्पनया? २५ यञ्चोक्तम्-खकारणसत्तासंबन्ध एवात्मलाभ इत्यादि, तन्न;
आत्मलाभस्य स्वकारणसत्तासमवायपर्यायतायां नित्यत्वप्रेसङ्गात्, तन्नित्यत्वे च कार्यस्याविनाशित्वं स्यात् ।
१ अभिधानः शब्दः। २ समवाये। ३ वैशेषिकः। ४ विशेषणपूर्वकलक्षणसाध्याभावात् । ५ विशेष्यप्रत्ययत्वादिति । ६ तन्तुपटादयः। ७ समवायिभ्यां भिन्नस्य । ८ समवायिप्रकरणे । ९ उभयं मा भूदिति । १० समवायः प्रतिभासते इति प्रत्यये विशेषणभूतस्य तन्तुपटादेः। ११ अदर्शनीभूतस्य (पुण्य-पापरूपस्य)। १२ इदं विशेष्यमिति ज्ञानम् । १३ संबन्धः। १४ विशेष्ये। १५ दण्डीति प्रत्यये दण्डशब्दोदेखेन दण्डस्य यथानुरागं मन्यते जनो न तथा प्रकृतेऽदृष्टशब्दयोजनाद्वारेणादृष्टस्यानुरागमिति संबन्धः । १६ अदृष्टानुरागाभ्युपगमाभावेपि । १७ दण्डादेस्तन्तुपटादेवा । १८ कार्यरूपस्य वस्तुनः स्वरूपोद्भवः । १९ सत्तासमवाययोनित्यत्वात् ।