________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० कार्यानारम्भात् तेऽङ्करादिकार्योत्पत्तो कारणान्तरसापेक्षाः, यथा मृत्पिण्डदण्डादयो घटकरणे कुस्मकारादिसापेक्षाः । योसाव. पेक्ष्यः स संयोग इति।
किञ्च, द्रव्ययोर्विशेषेणभावेनाध्यक्षत एवासौ प्रतीयते; तथाहि५कैश्चित्केनचित् 'संयुक्ते द्रव्ये आहर' इत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति, न द्रव्यमात्रम् ।
किञ्च, 'कुण्डली देवदत्तः' इत्यादिमतिरुपजायमाना किन्निवन्धनेत्यभिधातव्यम् ? न तावत्पुरुषकुण्डलमानिवन्धना; सर्वदा
तस्याः सद्भावप्रसङ्गात् । २० किञ्च, यदेव केनचित्क्वचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधि
प्रतिषेधमुखेन लोके व्यवहारप्रवृत्तिर्दृष्टा । यदि तु संयोगो न कदाचिदुपलब्धस्तत्कथमस्य 'चैत्रोऽकुण्डली कुण्डली' वा इत्येवं विभागेन व्यवहारो भवेत् ? 'चैत्रोऽकुण्डली' इत्यत्र हि न कुण्डलं
चैत्रो वा प्रतिषिध्यते देशादिभेदेनानयोः सतोःप्रतिषेधायोगात। १५ तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । तथा 'चैत्रः कुण्डली'
इत्यनेनापि विधिवाक्येन चैत्रकुण्डलयोर्नान्यतरस्य विधानं तयोः सिद्धत्वात् । पारिशेष्यात्संयोगस्यैव विधिर्विज्ञायते ।" [न्यायवा० पृ० २१८-२२२]
इत्यप्युयोतकरस्य मनोरथमात्रम्; तथाहि-यत्तावदुक्तम्२० निर्विशिष्टत्वाद्वीजादयः सर्वदैवाङ्कुरं कुर्युः; तयुक्तम् । तेषां निर्विशिष्टत्वासिद्धेः, सकलभावानां परिणामित्वात् । ततो विशिष्टपरिणामापन्नानामेव तेषां जनकत्वं नान्यथा।
यञ्चोक्तम्-'सर्वदा कार्यानारम्भात्' इत्यादि; तत्रापि कारणमात्रसापेक्षत्वसाधने सिद्धसाध्यता, अस्माभिरपि विशिष्टपरिणा२५ मापेक्षाणां तेषां कार्यकारित्वाभ्युपगमात् । अथाभिमतसंयोगा ख्यपदार्थान्तरसापेक्षत्वं साध्यते; तदानेन हेतोरन्वयासिद्धेरनैकान्तिकता, तमन्तरेणापि संभवाविरोधात् । दृष्टान्तस्य च साध्यविकलता । यदि च संयोगमात्रसापेक्षा एव ते तजनकाः, तर्हि प्रथमोपनिपाते एव क्षित्यादिभ्योङ्कुरादिकार्योदयप्रसङ्गः पश्चा
१ कारणान्तरं संयोगः। २ द्रव्ये संयोगवती इति । ३ पुमान् । ४ पुंसा। ५ संयोगरूपापूर्वस्वभावप्रादुर्भावानपेक्षा। ६ पुरुषकुण्डलयोः पार्थक्येन स्थिता वस्थायामपीत्यर्थः । ७ चैत्रोऽकुण्डलीति निषेधवाक्येन । ८ अन्वयः अविनाभावः ९ मृत्पिण्डादयः 'कुम्भकारापेक्षा घटकरणे प्रभवन्ति तथापि नासौ कुम्भकार संयोगस्वरूप इति ।