SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ सू० ४११०] समवायपदार्थविचारः दोषदुष्टत्वेन प्रतिपादितत्वात् । यदि हि संवन्धान्तरमनेकदोपदुष्टं समवायस्तु निदाषः स्यात् , तदासौ तन्न्यायात् सिध्येत् । न चैवमित्युक्तम् । कश्चायं परिशेपो नाम ? प्रसक्तप्रतिपेधे विशि(धे शि)प्यमाणसंप्रत्ययहेतुः से इति चेत् । स किं प्रमाणम् , अप्रमाणं वा ? न५ तावप्रमाणमभिप्रेतसिद्धौ समर्थम् ; अतिप्रसङ्गात् । प्रमाणं चेतिक प्रत्यक्षम् , अनुमानं वा? न तावत्प्रत्यक्ष तत्य प्रसक्तप्रतिषेध. द्वारेणाभिप्रेतसिद्धावसमर्थत्वात् । अथ केवलव्यतिरेक्यनुमान परिशेषः, तर्हि प्रकृतानुमानोपन्यासवैयर्थ्यम् , तस्योपन्यालेपि परिशेषमन्तरेणाभिप्रेतसिद्धेरभावात् । परिशेषस्तु प्रमाणान्तर-१० मन्तरेणापि तत्सिद्धौ समर्थ इति स एवोच्यताम् , न चासायुक्तः, तत् कथं समवायः सिध्येत् ? ननु चेहप्रत्ययस्य समवायाहेतुकत्वे निर्हेतुकत्वप्रसङ्गात् कादाचित्कत्वविरोधः, तदसत्; तादात्म्यहेतुकतयास्य प्रतिपादितत्वात्। महेश्वरहेतुकत्वाद्वा कादाचित्कत्वाविरोधः। तस्य तदहेतु-१५ कत्वे वा तेनैव कार्यत्वादिहेतोर्व्यभिचारः। ननु महेश्वरोऽसम्बन्धत्वात्कथं लस्बन्धबुद्धेः कारणमिति चेत् ? प्रभुशक्तेरविन्त्यत्वात्। यो हीश्वरस्त्रैलोक्यकार्यकरणसामर्थः स कथं 'पटे रूपादयः' इति बुद्धिं न विद्ध्यात् ? प्रभुः खलु यदेवेच्छति तत्करोति, अन्यथा प्रभुत्वमेवास्य हीयते । नच 'इह कुण्डे दधि' इत्यादिप्रत्यये २० सम्बन्धपूर्वकत्वोपलम्भादत्रापि तत्पूर्वकत्वस्यैव सिद्धिः; तंत्रापीश्वरहेतुकत्वं कार्यस्येच्छतेस्तच्चोद्यानिवृत्तः । संयोगश्चार्थान्तरभूतस्तन्निमित्तत्वेनात्राप्यसिद्धः; तस्यासिद्धस्वरूपत्वात्। "ननु संयोगो नामार्थान्तरं न स्यात्तदा क्षेत्रे बीजायो निर्विशिष्टत्वात् सर्वदैवाङ्कुरादिकार्य कुर्युः, न चैवम् । तस्मात्सर्वदा२५ १ संयोगतादात्म्यादिरूपम् । २ प्रसक्तः प्रसङ्गप्राप्तः सर्वजनप्रसिद्धो वा संयोगतादात्म्यरूपः, तस्य प्रतिषेधे सति विशिष्यमाणः समवायरूपस्तस्य सम्यक् प्रतीतिहेतुरित्यर्थः। ३ परिशेषः । ४ प्रत्यक्षस्य सन्निहितरूपादिष्वेव प्रवर्तमानत्वात् । ५ परिशेषोपि प्रमाणान्तरमन्तरेण तत्सिद्धावसमर्थो भविष्यतीत्युक्ते सत्याह । ६,७ इहेदमिति प्रत्ययस्य । ८ इहेदमिति प्रत्ययस्य । ९ इह तन्तुषु पट इत्यादीहप्रत्ययेपि । १० इह कुण्डे दधीत्यादिप्रत्यये। ११ दधीत्यादिप्रत्ययस्य । १२ वैशेषिकस्य । १३ तच्चो हि महेश्वरहेतुकत्वाद्वा कादाचित्कत्वाविरोध इत्यादि। १४ अौँ संयोगक्रियाधारौ ताभ्यामन्यः संयोग इत्यर्थः । १५ इहेति प्रत्ययनिमित्तत्वेन। १६ रह कुण्डेपि । १७ संयोगे सत्यप्यपूर्वसामोद्भवाभावादित्यर्थः । १८ गृहे स्थापिताः सन्तोपीत्यर्थः। प्र. क. मा० ५२
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy