SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] समवायपदार्थविचारः धाराश्यतेप्वपि च भावात् , घटतच्छब्दज्ञानवत् । नन्देव 'अयुत सिद्धानामेव' इत्यवधारोप्य व्यभिचारात्'आधाराधेयभूतानाम्' इति वचनमनश्चकम् , 'आधाराशेयभूतानामेव' इत्यवधारणे "अयुतसिद्धनाम्' इतिवचनवत् , ताभ्यामव्यभिचारात्; इत्यायसारम् । एकद्रव्यसलवादिनां रूपरसादीनामयुतलिद्धानामेव पर-५ स्परं समवायाखावात एकार्थतमकायसवान्धव्यभिचारनिवृत्त्यर्थमुत्तरावधारणम् । न हयं वाध्यशाचकनावादिवधुत सिद्धान्तामयि लम्भवति । तथोतरावधारणे सत्यपि आधाराधेयभावेन संयोगविशेषेण सर्वदाऽनाधाराधेयभूतानामसम्भवता व्यभिचारो मा भूदित्येवमर्थ पूर्वाधारणम् । इति भेदकलक्षणस्याशेषदोषरहितत्वादिदमुच्यते तन्तुपटा. दयः सामान्यतद्वेदादयो वा 'संयुक्ता न भवन्ति' इति व्यवहर्तव्यम् , नियमेनायुतसिद्धत्वादाधाराधेयभूतत्वाच्च, ये तु संयुक्ता न ते तथा यथा कुण्डवदरादयः, तथा चैते, तस्मात्संयोगिनो न भवन्तीति । यद्वा तन्तुपटादिसम्वन्धः संयोगो न भवति, निय-१५ मेनायुतसिद्धसम्वन्धत्वाद् , ज्ञानात्मनोपियविषयिभाववदिति । ननु समवायस्य प्रमाणतः प्रतीतौ संयोगाद्वैलक्षण्यासाधनं युक्तम् , न चासौ तस्यास्ति; इत्यप्यसत् ; प्रत्यक्षत एवास्य प्रतीतेः! तथाहि-तन्तुसम्बद्ध एव पटः प्रतिभासते तद्रूपादयश्च पटादिसम्बद्धाः, सम्वन्धाभावे सह्यविन्ध्यवद्विश्लेषप्रतिभासः स्यात् । २० अनुमानाच्चासौ प्रतीयते; तथाहि-'इह तन्तुषु पटः' इत्यादीहप्रत्ययः सम्वन्धकार्योऽवाध्यमानेहप्रत्ययत्वात् इह कुण्डे दधीत्या. दिप्रत्ययवत् । न तावदयं प्रत्ययो निहेतुकः; कादाचित्कत्वात् । १ शब्दश्च शानं च शब्दशाने, तस्य घटस्य शब्दशाने तच्छब्दशने, घटश्च तच्छब्दशाने चेति द्वन्द्वः। २ भूम्याकाशौ घटतच्छब्दाधारौ तौ तत्र सिद्धौ, घटतज्ज्ञाने आत्मभूम्याधारे ते तत्र सिद्ध इति । ३ धाराधेयभूतानामितिवचनसमर्थनार्थमिदम् । आधाराधेयभावस्य रूपरसादावभावात् । ४ रूपरसादय एकार्थाः। ५ आधार्याधारभूतानामेवेति । ६ प्रथमावधारणेनैव तदयभिचारनिवृत्तिः कुतो न भवतीत्याशङ्कयाह । ७ अस्मिन्पर्वते वृक्षा इति । ८ अयुतसिद्धानामेवेति । ९ अनेन प्रकारेणाशेषदोषरहितत्वमयुतसिद्धेत्यादिभेदकलक्षणस्य, इतरेभ्यो द्रव्यादिभ्यः समवायस्य भेदकत्वालक्षणं भेदकमयुतसिद्धेत्यादि । १० अग्रेतनं प्रसक्तप्रतिषेधार्थमनुमानम् । संयोगानां प्रतिषेधात्समवायस्य सिद्धिर्यतो भवति ततः परिशेषानुमानमित्यर्थः । ११ आदिपदेन गुणगुणिनः क्रियातदन्तश्च । १२ प्रत्यक्षतः । १३ पटतद्पादीनाम् । १४ इहात्मनि रूपादय इत्यादीहप्रत्ययेन बाध्यमानेन व्यभिचारपरिहारार्थमिदम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy