________________
सू० ४.१०] विशेषपदार्थविचारः
६०३ यदि च विशेषाख्यपदार्थान्तरव्यतिरेकेण विलक्षणप्रत्ययोत्पत्तिर्न स्यात्। कथं तर्हि विशेषेषु तस्योत्पत्तिस्तत्रापरविशेषाभावात् ? भावे वा अनवस्था, "नित्यद्रव्यवृत्तयः' इत्यभ्युपगमक्षतिश्च स्यात् । अथ स्वत एवानान्योन्यवलक्षण्यप्रतिपत्तिः, तर्हि परमाण्वादीनामप्यत एव तत्प्रत्ययप्रवृत्तिभविष्यतीति कृतं विशे-५ पाख्यपदार्थ परिकल्पनया
अथ विशेश्वपरविशेपयोगाब्यवृत्तबुद्धिपरिकल्पनयामनवस्थादिवोधकोपपत्तेरुपचारात्ते तबुद्धिः । ननु कोयं तदुद्धरुपचारो नाम ? असतो वस्तुखभावस्य विषयत्वेनाक्षेपश्चेत् : कथं नास्या मिथ्यात्वं तद्योगिनां चायोगित्वम् ?
किञ्च, असौ वस्तुखभावो विषयत्वेनाक्षिप्यमाणः संशयत्वेनाक्षिप्यते, विपर्यस्तत्वेन वा ? तत्राद्ये पक्षे व्यावृत्तरूपतया चलितप्रतिपत्तिविषयाणां विशेषाणां यथावत्प्रतिपत्त्यसम्भवात्तद्योगिनोऽयोगित्वमेव । द्वितीयेप्येतदेव दूपणम् , विशेषरूपविकलानपि तान् विशेषरूपतया प्रतिपद्यमानस्याऽयोगित्वप्रसङ्गाविशेषात् । १५. • यदि च वाधकोपपत्तेविशेषेषु व्यावृत्तवुद्धि परविशेषनिवन्धना; तर्हि परमाग्वादिष्वलौ तन्निवन्धना नाभ्युपगन्तव्या तद्विशेषात् । परमाण्वादौ हि विशेषेभ्योऽन्योन्यं व्यावृत्तबुधुत्पत्ती सकलविशेषेभ्यः परमाणूनां व्यावृत्तबुद्धिर्विशेषान्तरात्स्यादित्यानवस्था । खतस्तेषां ततो व्यावृत्तवुद्धिहेतुत्वेऽन्योन्यमपि तद्धेतुत्वं २० खत एव स्यादिति व्यर्थमर्थान्तरविशेषपरिकल्पनम् । 'ननु यथाऽमेध्यादीनां स्वत एवाशुचित्वमन्येषां तु भावानां तद्योगात्तत्तथेहापि तत्स्वभावत्वाहिशेषेषु स्वत एव व्यावृत्तप्रत्ययहेतुत्वं परमाण्वादिषु तु तद्योगात् ।
किञ्च, अतदात्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा २५ प्रदीपोत्पटादियुं, न पुनः पटादिभ्यः प्रदीपे, एवं विशेषेभ्य एवाण्वादौ विशिष्टः प्रत्ययो नाण्वादिभ्यस्तत्र; इत्यप्यसमीचीनम् ।
१ विशेषेषु विशेषाणां प्रवृत्तेः । २ आदिना नित्यद्रव्यवृत्तय इत्यभ्युपगमक्षतिश्चेति । ३ विशेषेषु । ४ तस्य व्यावृत्तस्य । ५ अपरविशेषा उपचारभूतास्तत्संयोगात्तपु जातोपि प्रत्यय उपचाररूप इत्यर्थः । ६ असतो वैलक्षण्यस्य । ७ अन्योन्यव्यावृत्तरूपस्य । ८ वैलक्षण्यरूपः। ९ उपचाररूपः। १० अनवस्थादिरूपो बाधकः। ११ परमाण्वादिभ्यः सर्वर्था भिन्नेभ्यः। १२ विशेषान्तराणामप्यन्येभ्य इत्यादिप्रकारेण । १३ अव्यावृत्तेषु अणुषु मुक्तमनस्सु च । १४ अन्यो=विशेषः । १५ अन्यनिमित्तात् । १६ इमे पटादय इति प्रत्ययः। १७ सर्वथाभिन्नेभ्यः। ... .. .