SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ५७६ प्रमेयकमलमार्तण्डे [४. विषयपरि० अथात्र द्रव्यं क्रियाहेतुर्न स्पर्शादिगुणः, कुत एतत् ? द्रव्यरहितस्यास्य तद्धेतुत्वादर्शनाचेत्, तर्हि वेगस्य क्रियाहेतुत्वं क्रियायाश्च संयोगहेतुत्वं संयोगस्य च द्रव्यहेतुत्वं न स्यात् , किन्तु द्रव्यमेवात्रापि तत्कारणम् । ननु द्रव्यस्य तत्कारणत्वे वेगादिरहितस्यापि ५ तत्स्यात् तर्हि स्पर्शस्य तदकारणत्वे तद्हितस्यैवायस्कान्तादेस्तद्धे. तुत्वं किन्न स्यात् ? तथाविधस्यास्यादर्शनान्नेति चेत्, तर्हि लोहद्रव्यक्रियोत्पत्तावुभयं दृश्यते उभयं कारणमस्तु विशेषाभावात् । तथाच एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्' इत्यस्यानेकान्तः। सर्वत्र चादृष्टस्य वृत्तौ सर्वद्रव्यक्रियाहेतुत्वं स्यात् । 'यदृष्टं १० यद्रव्यमुत्पादयति तददृष्टं तत्रैव कियां करोति' इत्यत्रापि शरीरारम्भकाणुषु क्रिया न स्यादित्युक्तम् । अदृष्टस्य चाश्रय आत्मा, स च हर्षविषादादिविवर्तात्मको द्वीपान्तरवर्तिद्रव्यैर्वियुक्तमेवात्मानं खसंवेदनप्रत्यक्षतः प्रतिपद्यते इति प्रत्यक्षबाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः । तद्वियुक्तत्वेनाऽतस्तत्प्रती१५ तावप्यात्मनस्तद्रव्यैः संयोगाभ्युपगमे पटादीनां मेर्वादिभिस्तेषां वा पटादिभिः संयोगः किन्नेष्यते यतः साख्यदर्शनं न स्यात् ? प्रमाणबाधनमुभंयत्र समानम् । किञ्च, धर्माधर्मयोव्यान्तरसंयोगस्य चात्मक आश्रयः, स च भवन्मते निरंशः। तथा च धर्माधर्माभ्यां सर्वात्मनास्यालिङ्गितत२० नुत्वान्न तत्संयोगस्य तत्रावकाशस्तेन वा न तयोरिति । अथ धर्माधर्मालिङ्गिततत्वरूपपरिहारेण तत्संयोगस्तत्स्वरूपान्तरे वर्त्तते; तर्हि घटादिवदात्मनः सावयवत्वं खारम्भकावयवारभ्यत्वमनित्यत्वं च स्यात् । एतेनैतन्निरस्तम्-'देवदत्तं प्रत्युपसर्पन्तः पश्वाद्यो देवदत्त२५ गुणाकृष्टास्तं प्रत्युपसर्पणवत्त्वाद्रासादिवत्' इति । यथैव हि तद्वि शेषगुणेन प्रयत्नाख्येन समाकृष्टास्तं प्रत्युपसर्पन्तः समुपलभ्यन्ते प्रासादयः, तथा नयनाञ्जनादिना द्रव्यविशेषेणाप्याकृष्टाः स्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्ते एव, अतः 'किं प्रयत्नसंधर्मणा १ अवयवाश्रितस्य । २ अवयवेष्वेव । ३ अवयवलक्षणतन्त्वाश्रितस्य संयोगस्य । ४ अवयविलक्षणपटस्य । ५ अवयविद्रव्यम्। ६ क्रियासंयोगद्रव्येष्वेव। ७ तस्य क्रियायाः संयोगस्य द्रव्यस्य च। ८ स्पर्शायस्कान्तौ। ९ स्पर्शेन । १० किं वा सर्वत्र' इति तृतीयो विकल्पोयम् । ११ पूर्वम् । १२ सर्व सर्वत्र विद्यते इति वचनात् । १३ अस्मदुक्ते भवदुक्ते च। १४ द्रव्यस्यापि क्रियाहेतुत्वसमर्थनपरेण ग्रन्थेन एकद्रव्यत्वे सति क्रियाहेतुगुणत्वानुमाननिराकरणेन वा। १५ प्रयत्नसदृशेनेत्यर्थः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy