SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] आत्मद्रव्यवादः ५७५ सर्वत्राविशेषेण सर्वसाकर्षणानुपङ्गात् । अथ यदृष्टेन यज्जन्यते तदृष्टेन तदेवाकृष्यते न सर्वम् । तर्हि देवदत्तशरीरारम्भकाणां परमागूनां नित्यत्वेन ताजन्यत्वात् कथं तद्दनाकर्षणम् ? तथाप्याकपणेऽतिप्रसङ्गः तन्नायः पक्षो युक्तः। नापि द्वितीयः; तथाहि-यथा वायुः स्वयं देवदत्तं प्रत्युपसर्पण-५ वानन्येषां तृणादीनां तं प्रत्युपतर्पणहेतुस्तथाऽदृष्टमपि तं प्रत्युपलपत्स्वयमन्येषां तं प्रत्युपतर्पता हेतुः, द्वीपान्तरवर्तिद्रव्यसंयुतात्मप्रदेशस्थमेव बा? प्रथमपक्षे वयमेवादृष्टं तं प्रत्युपलपति, अदृष्टान्तराद्वा? स्वयमेवास्य तं प्रत्युपसर्पणे द्वीपान्तरवर्तिद्रव्याणामपि तथैव तत् इत्यदृष्टपरिकल्पनमनर्थकम् । 'यदेवदत्तं प्रत्यु-१० पसर्पति तद्देवदत्तगुणाकृष्टं तं प्रत्युपसर्पणात्' इति हेतुश्चानकान्तिका स्यात् । वायुवचादृष्टस्य सक्रियत्वम् गुणत्वं वाधेत । शब्दवच्चापरापरस्योत्पत्तौ अपरमदृष्टं निमित्तकारणं वाच्यम्, तत्राप्यपरमित्यनवस्था । अन्यथा शब्देऽप्यदृष्टस्य निमित्तत्वकल्पना न स्यात् । अदृष्टान्तरात्तस्य तं प्रत्युपलप तदप्यदृष्टान्तरं तं प्रत्युप-१५ सर्पत्यदृष्टान्तरात्तदपि तदन्तरादिति तद्वस्थमनवस्थानम् । अथ द्वोपान्तरवद्रिव्यसंयुकात्मप्रदेशस्थमेव तत्तेषां तं प्रत्युपसर्पणहेतुः, न; अन्यत्र प्रयत्नादावात्मगुणे तथानस्युपगमात् । न खलु प्रयत्नो प्रासादिसंयुक्तात्मप्रदेशस्थ एव हस्तदिसञ्चलनहेतुसादिकं देवदत्तमुखं प्रापयति, अन्तरालप्रयत्नवैफल्यप्रसङ्गात् । २० ननु प्रयत्नस्य विचित्रतोपलभ्यते, कश्चिद्धि प्रयत्नः स्वयमपरापरदेशवानन्यत्र नियाहेतुर्यथानन्तरोदितः । अन्यश्चान्यथा বথা লাকংস। শু হাহাহা) दीनां लक्ष्यप्रदेशप्राप्तिक्रियाहेतुरिति । सेयं चित्रता एकद्रव्याणां क्रियाहेतुगुणानां खाश्रयसंयुक्तासंयुक्तद्रव्यक्रियाहेतुत्लेन किन्ने-२५ प्यते विचित्रशक्तित्वाद्भावानाम् ? दृश्यते हि भ्रामकाख्यस्यायस्कान्तस्य स्पर्शी गुण एकद्रव्यः खाश्रयसंयुक्तलोहगव्यक्रियाहेतुः, आकर्षकाख्यस्य तु खाश्रयासंयुक्तलोहद्रव्यक्रियाहेतुरिति । __१ अनाकृष्यमाणेष्वपि । २ संयोगस्य । ३ सर्वस्याप्याकर्षणप्रसङ्गः। ४ स्वयमुपसर्पताऽदृष्टेन। ५ शब्दवदपरापरादृष्टस्योत्पत्तेः कथं सक्रियत्वमित्याशङ्कायामाह । ६ ‘इति चेत्' इत्युपरिष्टायोज्यम् । ७ हस्तादिगतात्मप्रदेशस्थः। ८ येन प्रयत्नेन ग्रासो गृह्यते स प्रथमः प्रयत्नः, अन्तरालप्रयत्नस्तु येन ग्रासादिकमूवं कृत्वा मुखं प्रति नीयते स इति। ९ यः प्रयत्नो भिन्न भिन्न प्रदेशं गृह्णातीत्यर्थः । १० ग्रासादौ । ११ शरासनस्य धनुपोऽध्यासः स्थितिस्तस्य पदं स्थानं हस्तरूपं तत्र संयुक्तश्चासावात्मप्रदेशश्च तत्र तिष्ठतीति विग्रहवाक्यम् । १२ अदृष्टलक्षणानाम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy