SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ५५६ प्रमेयकमलमार्तण्डे [४. विषयपरि० ताभिलाषत्वात् आत्मनोनुंकूलेण्वनुकूलाभिमानजनिताभिलाषवत्' इत्यस्य च विरोधः, यस्माद्योऽसौ परस्यानुकूलेष्वनुकूलाभिमानजनिताभिलाषजनित आत्मविशेषगुणो नासावभिलषित. राभिमुखक्रियाकारणम् , तत्समानस्य तत्कारणत्वात्, यश्चे ५तक्रियाकारणं नासौ यथोक्ताभिलाषजनित इति। 'इच्छाद्वेष निमित्तौ प्रवर्तकनिवर्त्तको धर्माधर्मों, अव्यवधानेन हिताहितविषयप्राप्तिपरिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वात् , प्रवर्तक निवर्तकप्रयत्नवत्' इत्यत्र हेतोर्व्यभिचा रश्च-जन्मान्तरफलोदययोर्धर्माधर्मयोः अव्यवधानेन हिताहित१० विषयप्राप्तिपरिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वे. पीच्छाद्वेषजनितत्वाभावात् । ततः शब्दाच्छब्दोत्पत्तिवद्धर्मादेधर्माद्युत्पत्त्यभावात् । क्षणिकत्वे चातो जन्मान्तरे फलासम्भवादक्षणिकत्वं तस्याभ्युपगन्तव्यमित्यनेनानैकान्तिको हेतुः। अथास्सदादिप्रत्यक्षत्वविशेषणविशिष्टस्य विभुद्रव्यविशेषगुण१५ त्वस्यात्रौंसम्भवान्न व्यभिचारः । ननु मा भूयभिचारः; तथापि साकल्येन हेतोर्विपेक्षाट्यावृत्त्यसिद्धिः। विपक्षविरुद्धं हि विशेषणं ततो हेतुं निवर्त्तयति । यथा सहेतुकत्वमहेतुकत्वविरुद्धं ततः . १ सामान्यं हेतुं ब्रुवतां दोषाभावात् । २ जीवस्य स्वस्य वा। ३ वस्त्रादिषु सक्चन्दनादिषु च । ४ अनुमानस्य । ५ धर्मादेर्धर्माद्युत्पत्तौ सत्याम् । ६ धर्मलक्षणः । ७ अनुष्ठातुर्वैशेषिकस्य । ८ परापरोत्पत्त्या तस्मादन्यत्वात्। ९ अन्त्यो धर्मः । १० इच्छाद्वेषौ निमित्तं कारणं ययोर्धर्माधर्मयोरिति भावः। ११ कार्यस्य निष्पादकानिष्पादकौ। १२ कारणत्वादित्युच्यमाने चक्षुरादिना व्यभिचारस्तनिवृत्त्यर्थमात्मविशेषगुणत्वादित्युक्तम् , तावत्युक्त सुखादिनानेकान्तस्तत्परिहारार्थ कर्मणः कारणखे सतीति विशेषणम् , तावत्युक्ते बुध्यादिनानेकान्तस्तन्निरासाथ हिताहितविषयप्राप्तिपरिहारहेतोरित्युपात्तम् , तावत्युक्ते इच्छाद्वेषाभ्यामनेकान्तस्तन्निरासार्थमव्यवधानेनेति विशेषणमुपादीयते । १३ धर्माद्धितविषयप्रात्यहितविषयपरिहारौ भवतः, अधर्मादहितविषयप्राप्तिहितविषयपरिहारौ स्त इति सम्बन्धः । १४ धर्माधर्मयोः। १५ अनुमाने । १६ धर्मादेः क्षणिकत्वे । १७ पूर्वधर्माधर्मसदृशयोः । १८ धर्मादेः क्षणिकत्वे साध्ये। १९ धर्मादेः क्षणिकत्वाभावात् । २० असदादिप्रत्यक्षत्वे सतीति विशेषणं त्यक्त्वा विभुद्रव्यविशेषगुणत्वादित्ययं हेतुः। २१ व्यभिचारपरिहारार्थम् । २२ साधनस्य । २३ धर्मादौ । २४ शब्दे यथा सम्भवस्तथा धर्मादौ नास्ति यतः । २५ अक्षणिकाद। २६ कथम् ? तथा हि। २७ हेतोर्विपक्षे वृत्तिं वारयति यत्तदेव हेतुविशेषणम् । २८ अनित्यः शब्दः कादाचित्कत्वाद् घटवदित्युक्त खननोत्सेचनादिना कादाचित्केन नमसानैकान्तिकत्वम् , तद्यवच्छेदार्थ सहेतुकत्वे सति कादाचित्कत्वादिति साधनं प्रयोक्तव्यम् । २९ विशेषणम् । ३० अहेतुकम् आकाशादि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy