SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ सू० ४.१० आकाशद्रव्यविचारः ५५५ मालत्वादस्यानुमानं वाधकम् , यथा स्थिरचन्द्रार्कादिविज्ञानस्य देशान्तरप्राप्तिलिङ्गजनितं गत्यनुमानम् ; कथं पुनरस्याध्यक्षाभासत्वम् ? अनुमानेन वाधनाञ्चत् । अनेनानुमानस्य वाघनादनुमानाभासता किन्न स्यात् ? अथानुमानवाधितविषयत्वान्नेदमनुमानस्य बाधकम् । अनुमानम्प्येतद्वाधितविषयत्वान्नास वाधकं स्यात् । न ५ छ तदनुमानमस्ति। नन्विदमस्ति-क्षणिकः शब्दोऽमदादिप्रत्यक्ष सति विमुद्रव्यविशेषगुणत्वात् सुखादिवत् । सत्यमस्ति, किन्त्वेकशाखाप्रभवत्ववदेतत्साधनं प्रत्यभिज्ञाप्रत्यक्षवाधितकम निर्देशानन्तरं प्रयुक्तत्वान्न साध्यसिद्धिनिवन्धनम् । विमुद्रव्यविशेषगुणत्वं चासिद्धम् : १० शब्दस्य द्रव्यत्वप्रसाधनात् । धर्मादिना व्यभिचारश्च; अस्य विभुद्रव्यविशेषगुणत्वेपि क्षणिकत्वाभावात् । तस्यापि पक्षीकरणादव्यभिचारे न कश्चिद्धतुर्व्यभिचारी, सर्वत्र व्यभिचारविषयस्य पक्षीकरणात् । 'अस्मदादिप्रत्यक्षत्वे सति' इति च विशेषणमनर्थकम्; व्यवच्छेद्याभावात् । धर्मादेश्च क्षणिकत्वे स्वोत्पत्तिसमया-१५ नन्तरमेव विनष्टत्वात्ततो जन्मान्तरे फलं न स्यात् । शब्दाच्छब्दोत्पत्तिवद्धर्मादेर्धर्माद्युत्पत्तिः, इत्यप्ययुक्तम् । तथाभ्युपगमाभावात् , तद्वदपरापरतत्कार्योत्पत्तिप्रसङ्गाच्च । 'परस्यानुकूलेष्वनुकूलाभिमानजनितोभिलाषः अभिलषितुर्थाभिमुखक्रियाकारणमात्मविशेषगुणमारानोति अनुकूलेष्वनुकूलाभिमानजनि-२० . १ शब्दैकत्वविषयस्याध्यक्षस्य । २ शब्दस्य क्षणिकत्वसाधकेन। ३ एतेन% मानसप्रत्यक्षेण । ४ शब्दक्षणिकत्वानुमानम्। ५ परममहापरिमाणेन व्यभिचारपरिहारार्थमिदं विशेषणम् । ६ विभु आकाशमात्मा च। ७ घटादिगतरूपादिना व्यभिचारनिरासार्थ विशेषेति। ८ उपहासे । ९ कर्मप्रतिज्ञा। १० प्रत्यभिशाप्रत्यक्षेण पूर्व शब्दस्याक्षणिकत्वं साधितं यतः। ११ विभुद्रव्यविशेषगुणत्वादित्येवोच्यमाने । १२ क्षणिकत्वं साध्यम् । १३ अनेकान्तपरिहाराय, पक्षान्तःपातित्वाद्धर्मादेः क्षणिकत्वमायातमिति भावः। १४ व्यवच्छेद्यफलं हि विशेषणमिति वचनात् । १५ अस्सदादिप्रत्यक्षवे सतीति विशेषणेन किलासदाद्यऽप्रत्यक्षो धर्मादिर्व्यवच्छेद्यः, तस्यापि पक्षीकरणे व्यवच्छेद्यमस्य विशेषणस्य नास्तीति भावः, सर्वेषां पक्षीकरणाद्विशेषणेन परिहरणीयस्याभावात् । १६ परेण । १७ धर्माधर्मयोः क्षणिकत्वे । १८ अस्तु, न चैवम्, न खलु धर्माद्युत्पत्तिवदपरापरवनिताद्यङ्गाद्युत्पत्तिः प्रतीयते । १९ प्रकृतसाध्ये हेवन्तरमिदम्। २० अनुष्ठातुर्वैशेषिकस्य । २१ इज्यायागादिपूजादिषु धर्मोत्पादनकारणभूतेषु । २२ धर्मजनकत्वेन। २३ इमान्यनुकूलानीत्यभिमानस्तेन जनितः । २४ अर्थ स्रक्चन्दनादिकं प्रति । २५ क्रिया कार्यम्। २६ उत्तरजन्मनि । २७ धर्मलक्षणं दृष्टान्तपक्षे प्रयत्नलक्षणं च । २८ उत्पादयति, साधयति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy