SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सू० ४।६] क्षणभङ्गवादः किञ्च, सकलस्वगतविशेषाधायकत्वे सर्वात्मनोपादेयक्षणे एवास्योपयोगात् तत्रानुपयुक्तस्वभावान्तराभावाच एकसामध्यन्तर्गतं प्रति सहकारित्वाभावः, तत्कथं रूपादेः रसतो गतिः? खभावान्तरोपगमे त्रैलोक्यान्तर्गतान्यजन्यकार्यान्तरापेक्षया तस्याजनकत्वमपि स्वभावान्तरमभ्युपगन्तव्यम् , इत्यायातमेकस्यैवो-५ पादानसहकार्यऽजनकत्वाद्यनेकविरुद्धधर्माध्यासितत्वम् । न चैते धर्माः काल्पनिकाः, तत्कार्याणामपि तथात्वप्रसङ्गात् । समनन्तरप्रत्ययत्वमप्युपादानलक्षणमनुपपन्नम्। कार्य समत्वं कारणस्य सर्वात्मना, एकदेशेन वा? सर्वात्मना चेत्, यथा कारणस्य प्राग्भावित्वं तथा कार्यस्थापि स्यात्, तथा च सव्येतर-३० मोविषाणवदेककालत्वात्तयोः कार्यकारणभावो न स्यात् । तथा कारणाभिमतस्यापि स्वकारणकालता, तस्यापि सेति संकलशून्यं जगदापयेत । कथञ्चित्समत्वे योगिज्ञानस्याप्यस्मदादिज्ञानावलॅम्बनस्य तदाकारत्वेनैकसन्तानत्वप्रसङ्गः स्यात् ।। ___ अनन्तरत्वं च देशकृतम्, कालकृतं वा स्यात् ? न तावद्देशकृतं १५ तत्तत्रोपयोगि व्यवहितदेशस्यापि इह जन्ममरणचित्तस्य भाविजन्मचित्तोपादानत्वोपंगमात् । नापि कालानन्तर्य तत् ; व्यवहितकालस्यापि जाग्रचित्तस्य प्रवुद्धचित्तोत्पत्तावुपादानत्वाभ्युपगमात् । अव्यवधानेन प्राँग्भावमात्रमनन्तरत्वम्, इत्यप्ययुक्तम् । क्षणिकैकान्तवादिनां विवक्षितक्षणानन्तरं निखिलजगत्क्षणाना-२० मुत्पत्तेः सर्वेषामेकसन्तानत्वप्रसङ्गात् । नियमवदन्वयव्यतिरेकानुविधानं तल्लक्षणम् ; इत्यप्यसमीचीनम्। वुद्धतरचित्तानामप्युपादानोपादेयभावानुषङ्गात् , तेषामव्यभिचारेण कार्यकारणभूतत्वाविशेषात् । निरौलवचित्तोत्पादात्पूर्व १ स्वगतसकलविशेषाधायकत्वे दूषणान्तरमाह। २ कार्यजन्ये । ३ रूपाधुपादानस्य । ४ पूर्वरूपरसौ एकसामग्री। ५ उत्तररसम् । ६ पूर्वरूपस्य । ७ शानम् । ८ रूपाद्युपादानस्य । ९ आदिपदेन पूर्वकालभावित्वमुत्तरकालनाशित्वम् । १० अयथार्थाः। ११ तृतीयविकल्पः । १२ प्रत्ययः कारणम्। १३ समकालत्वमित्यर्थः। १४ सर्वात्मना समानत्वात् । १५ पूर्वरूपक्षणे कार्य पूर्वतररूपक्षणस्य कारणभूतस्य समत्वम् । १६ कार्यकारणयोरभावात् । १७ शातत्वेन । १८ बहुव्रीहिः । १९ कथञ्चित्समत्वेन सद्भावात् । .२० सौगतेन। २१ निद्रायाम् । २२ अन्येन वस्तुना तिरोधायकेन। २३ पूर्वरूपस्य कारणस्य । २४ चेतनाऽचेतनानां कार्याणाम् । २५ चतुर्थविकल्पः। २६ सुगत । २७ किञ्चिज्ज्ञ । २८ चित्तं शानम्। २९ अस्मदादिज्ञानसद्भावे सुगतस्यास्सदादिशानविषयकशानोत्पत्तिस्तदभावे नोत्पत्तिरित्यन्वयव्यतिरेकाभ्याम् । ३० आस्रवरहितचित्त ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy