SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ५०० प्रमेयकमलमार्तण्डे [४. विषयपरि० खसन्ततिनिवृत्तौ कार्यजनकत्वम् , यथा मृत्पिण्डः स्वयं निवर्तमानो घटमुत्पादयति, आहोस्विदनेकस्मादुत्पद्यमाने कार्य स्वगतः विशेषाधायकत्वम् , समनन्तरप्रत्ययत्वमात्रं वा स्यात् , नियमवद न्वयव्यतिरेकानुविधानं वा ? प्रथमपक्षे कथञ्चित्सन्तान निवृत्तिः, ५सर्वथों वा? कथञ्चिच्चेत्, परंमतप्रसङ्गः । सर्वथा चेत्, परलोकाभावानुषङ्गो ज्ञानसन्तानस्य सर्वथा निवृत्तेः।। द्वितीयपक्षेपि किं स्वगतकतिपयविशेषाधायकत्वम्, सकलविशेपाधायकत्वं वा? तत्राद्यविकल्पे सर्वज्ञशाने स्वाकारार्पकस्या सदादिज्ञानस्य तत्प्रत्युपादानभावः, तथा च सन्तानसङ्करः । १० रूपस्य वा रुपज्ञानं प्रत्युपादानभावोनुषज्येत स्वगतकतिपयविशेषाधायकत्वाविशेषात् । रूपोपादानत्वे च परलोकाय दत्तो जैलाञ्जलिः । कतिपय विशेषाधायकत्वेनोपादानत्वे च एकस्यैव ज्ञानादिक्षणस्यानुवृत्तव्यावृत्ताऽनेकविरुद्धधर्माध्यासप्रसङ्गात् स एव परमतप्रसङ्गः। द्वितीयविकल्पे तु कथं निर्विकल्पकाद्विकल्पो१५त्पत्तिः रूपाकारात्समनन्तर#त्ययाद्रसाकारप्रत्ययोत्पत्तिर्वा, स्वगतसकलविशेषाधायकत्वाभावात् ? सन्तानवहुत्वोपैगमात्सर्वस्य खसदृशादेवोत्पत्तिरित्यभ्युपगमे तु एकस्सिन्नपि पुरुषे प्रमात वहुत्वापत्तिः। तथा च गवाश्वादिदर्शनयोभिन्नसन्तानत्वादेकेने दृष्टेथे परस्यानुसन्धानं न स्याद्देवदत्तेन दृष्टे यज्ञदत्तवत् । १ (ज्ञानं प्रति ) इन्द्रियार्थालोकादिकारणकलापात् । (घटं प्रति ) मृदादिकारण, कलापात् । २ ज्ञानलक्षणे घटादौ वा। ३ पर्यायरूपेण। ४ द्रव्यरूपेणापि । ५ तथैव जैनानामपीष्टत्वात् । ६ एकजन्मनि वर्तमानस्य, उत्तरोत्तरशानसन्तान एवात्मेति वचनात् । ७ किञ्चिज्ज्ञत्वं वर्जयित्वाऽन्यान् चेतनत्वादिज्ञानगतविशेषान् समर्पयतीति भावः। ८ सहकारिकारणभूतस्य । ९ अस्सदादिज्ञानं यदा सर्वशो विषयीकरोति तदा तत्स्वाकारं कतिपयं समर्पयति यतः । १० सहकारिकारणभूतस्य । ११ कार्यभूतम् । १२ कतिपयविशेषाः रूपगतजडत्वं वर्जयित्वा स्वगतश्वेतपीताचाकारविशेषाः। १३ रूपशानस्य । १४ अचेतनरूपादुपादानाच्चैतन्योत्पत्तिय॑तः । १५ रूपं रूपज्ञाने रूपं समर्पयति न तु जडत्वम् । १६ आदिना अर्थादि । १७ अप्तिानर्पितादिविशेषापेक्षयाऽनुवृत्तव्यावृत्तरूप । १८ अनेकान्तात्मकत्वाज शानस्य। १९ उत्तरनिर्विकल्पकज्ञानस्योपादानात्सविकल्पकस्य सहकारिकारणात् । २० रूपज्ञानादुत्तररूपज्ञानस्योपादानादुत्तररसशानस्य सहकारिकारणात् । २१ एकसिन्पुरुषे। २२ निर्विकल्पकस्य निर्विकल्पकमुपादानं सविकल्पकस्य सविकल्पकमुपादानमिति भावः । २३ शानसन्तानस्य बहुत्वात् । २४ गोदर्शनेन । २५ अश्वादि. दर्शनस्य । २६ य एवाहं पूर्व गामद्राक्षं स एवाहमिदानीमश्वं पश्यामीति क्रमेण, युगपदश्वगावी पश्यामीत्यक्रमेण च ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy