________________
अथोक्तप्रकारं प्रमाणं किं निर्विषयम्, सविषयं वा ? यदि निर्विषयम् कथं प्रमाणं केशोण्डुकादिज्ञानवत् ? अथ सविषयम्; कोस्य विषयः ? इत्याशङ्क्य विषयविप्रतिपत्ति निराकरणार्थे 'सामान्यविशेषात्मा' इत्याद्याह
;
श्रीः ।
अथ चतुर्थः परिच्छेदः ||
५
सामान्यविशेषात्मा तदर्थो विषयः ॥ १ ॥
तस्य प्रतिपादितप्रकारप्रमाणस्यार्थो विषयः । किंविशिष्टः ? सामान्यविशेषात्मा । कुत एतत् ?
२०
पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेन अर्थक्रियोपपत्तेश्च ॥ २ ॥
१० अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्, यो हि यदाकारोल्लेखिंप्रत्ययगोचरः स तदात्मको दृष्टः यथा नीलाकारोल्लेखिप्रत्ययगोचरो नीलस्वभावोर्थः, सामान्यविशेषाकारोल्लेख्यनुवृत्तव्यावृत्तप्रत्ययगोचरश्चाखिलो वाह्याध्यात्मिकप्रमेयोर्थः, तस्मात्सामान्यविशेपात्मेति । न केवलमतो हेतोः स तदात्मा, अपि १५ तैराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनाऽर्थक्रियोपपत्तेश्च । तु पूर्वो'सामान्यविशेषात्मा तदर्थः' इत्यभिसम्बन्धः ।
कतिप्रकारं सामान्यमित्याह -
सामान्यं द्वेधा ॥ ३ ॥
कथमिति चेत्
तिर्यगूर्द्धताभेदात् ॥ ४ ॥
तत्र तिर्यक् सामान्यस्वरूपं व्यंक्तिनिष्ठतया सोदाहरणं प्रदर्शयति
१ स्वापूर्वेत्यादि । २ ज्ञानं धर्मिं प्रमाणं न भवतीति साध्यो धर्मों निर्विषयत्वात्केशोण्डुकज्ञानवत् । ३ सामान्यं च विशेषश्च सामान्यविशेषौ तावात्मानौ यस्य स तथोक्तः । ४ सिद्धम् । ५ गौर्गौरित्यादिप्रत्ययः अनुवृत्तः । श्यामः शबलो न भवतीत्यादिप्रत्ययो व्यावृत्तरूपः । ६ उल्लेखः = प्रतिभास: । ७ पूर्वोत्तराकारौ पर्यांयौ = विशेषः। ८ स्थितिलक्षणं द्रव्यमूर्द्धतासामान्यम् । श्रौव्यमित्यर्थः । ९ विशेषो व्यक्तिः ।
1