________________
सू० ३।१०१] अभिहितान्वयवादः ततः प्रकृत्याद्यवयवेभ्यः कथञ्चिद्भिन्नमभिन्नं च पदं प्रातीतिकमभ्युपगन्तव्यम्, न तु सर्वथाऽनंशं वर्णवत्तद्भाहकाभावात् । तद्वत्पदेभ्यः कथञ्चिद्भिन्नमभिन्नंच वाक्यं द्रव्यभाववाक्यमेदभिन्नं प्रोक्तलक्षणलक्षितं प्रतीतिपदमारूढमभ्युपगन्तव्यम् अलं प्रतीत्यपलापेनेति । प्रामाण्यं सुधियो धियो यदि मतं संवादतो निश्चितात्,
स्मृत्यादेरपि किन्न तन्मतमिदं तस्याऽविशेषात्स्फुटम् । तत्संख्या परिकल्पितेयमधूना सन्तिष्ठतेऽतः कथम् ,
तस्माजनमते मतिर्मतिमतां स्थेयाचिरं निर्मले ॥१॥ इति श्रीप्रभाचन्द्रदेव विरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे
तृतीयः परिच्छेदः ॥ श्रीः ॥
१ पदं प्रकृतिर्न भवति, पदं च प्रकृतिनैति व्यावृत्तिरूपेण । २ समुदायरूपेण । ३ निरंशस्य वर्णस्य यथा ग्राहकं प्रमाणं नास्ति तथाऽनंशपदस्य च। ४ पदं वाक्यं न भवति, वाक्यं च पदं न भवतीति व्यावृत्तिरूपेण। ५ समुदायरूपेण । ६ वचनात्मकं द्रव्यवाक्यं, बोधात्मकं तु भाववाक्यम् । ७ पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यमिति । ८ सकलं परिच्छेदार्थमुपसंहरन्नाह । ९ पुंसः। १० प्रामाण्यम् । ११ संवादस्य। १२ तस्य प्रमाणस्य । १३ स्मृत्यूहादीनां प्रामाण्यप्रति. पादनसमये।