SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ सू० ३।१०१] शब्दसम्बन्धविचारः ४२९ मौणत्वाच्च । व्यक्तेस्तु तदाश्रयत्वे कथं नित्यत्वमभ्युपगमातथाप्रतीत्यभावाच्च । अनित्यत्वे च तदाश्रयत्वस्य सिद्धं तयपाये सम्वन्धस्यानित्यत्वं भित्तिव्यपाये चित्रवत् । ततोऽयुक्तमुक्तम् "नित्या शब्दाथी सम्बन्धात्तत्रामाती महर्षिभिः। . ५ सूत्राणां सानुतन्त्राणी भाप्याय च प्रतिः " वाक्यपदी० ११२३ ? इति: सदृशपरिणाम विशिष्टस्यार्थस्य शब्दस्य तदाधितलम्वन्धस्य चैकान्ततो नित्यत्वासम्भवात् । सर्वथा नित्यस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियासम्भवतोऽसत्त्वं चाऽश्वविषाणवत् । अन-१० वस्थादूषणं चायुक्तमेव; 'अयम्' इत्यादेः शब्दस्यानादिपरम्परीतोऽर्थमात्र प्रसिद्धसम्बन्धत्वात्, तेनावगैतसम्बन्धस्य घटादिशब्दस्य सङ्केतकरणात्। नित्यसम्बन्धवादिनोपि चानवस्थादोषस्तुल्य एवं-अनभिव्य. क्तसम्बन्धस्य हि शब्दस्याभिव्यक्तलम्बन्धेन शब्देन सम्वन्धा-१५ भिव्यक्तिः कर्तव्या, तस्याप्यन्येनाभिव्यक्तसम्बन्धेनेति । यदि पुनः कस्यचित्स्वत एवं सम्वन्धाभिव्यक्तिः, अपरस्यापि सा तथैवास्तीति सङ्केतक्रिया व्यर्थी । शब्दविभागाभ्युपगमे चालं सम्बन्धस्य नित्यत्वकल्पनया । कल्पने चाऽगृहीतसङ्केतस्याप्यतोऽर्थप्रतिपत्तिः स्यात् । सङ्केतस्तस्य व्यञ्जकः; इत्यप्य-२० युक्तम् ; नित्यस्य व्यङ्ग्यत्वायोगात् । नित्यं हि वस्तु यदि व्यक्तं व्यक्तमेव, अथाव्यक्तमप्यव्यक्तमेव, अभिनवभावत्वात्तस्य । शब्दाभिव्यक्तिपक्षनिक्षितदोषानुबङ्गश्चात्रापि तुल्य एव । १ चतुर्थपरिच्छेदे । २ नित्यजातेः। ३ सम्बन्धस्य । ४ परेण । ५ व्यक्तनित्यत्वस्य । ६ व्यक्तिरूपस्य । ७ अनित्यः सम्बन्धो यतः । ८ सामान्य । ९ वाच्यवाचकलक्षणः । १० मीमांसायां ग्रन्थे । ११ अभ्युपगताः । १२ विषमपदव्याख्यानमनुतनं तेन सह वर्तन्ते इति । तेषां सूत्राणाम् । १३ सर्वथा । १४ प्रवाहतः। १५ पुरोवर्तिन्यनिर्धारितार्थे । १६ अर्थेन सह । १७ मीमांसकस्य । १८ कथम् । १९ अर्थेन सह। २० अनवस्थापरिहारार्थम् । २१ नापरेण । २२ हेतोः । २३ पुरुषेण क्रियमाणा। २४ अयमित्यादिशब्दस्य स्वत एव सम्बन्धः । घटादिशब्दस्य तु अयमित्यादिना शब्देनापरेण सम्बन्ध इति । २५ नित्यत्वस्य । २६ नुः । २७ सम्बन्धस्य नित्यत्वात् । २८ नित्यशब्दस्य । २९ सङ्केतेन। ३० एकखभावत्वात् । ३१ नित्यसम्बन्धामिव्यक्तौ अष्टविकल्पप्रकारेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy