SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ४२८ प्रमेयकमलमार्तण्डे ३. परोक्षपरि०. सहजा स्वाभाविकी योग्यता शब्दार्थयोः प्रतिपाद्यप्रतिपादकशक्तिः ज्ञानशेययोझोयशापकशक्तिवत् । न हि तत्राप्यतो योग्यतातोऽन्यः कार्यकारणभावादिः सम्बन्धोस्तीत्युक्तम् । तस्यां सत्यां सङ्केतः। तद्धशाद्धि स्फुटं शब्दा,यो वस्तुप्रतिपत्तिहेतवः। यथा मेादयः सन्ति ॥ १०१ ॥ इति। ननु चासौ सहजयोग्यताऽनित्या, नित्या वा? न तावदनित्या; अनवस्थाप्रसङ्गात्-येन हि प्रसिद्धसम्बन्धेन 'अयम्' इत्यादिना शब्देनाप्रसिद्धसम्बन्धस्य घटादेः शब्दस्य सम्बन्धः क्रियते १० तस्याप्यन्येन प्रसिद्धसम्बन्धेन लम्बन्धस्तस्याप्यन्येनेति । नित्यत्वे चास्याः सिद्धं नित्यसम्बन्धाच्छन्दानां वस्तुप्रतिपत्तिहेतुत्वमिति मीमांसकाः; तेप्यतत्त्वज्ञाः; हस्तसंज्ञादिसम्बन्धवच्छब्दार्थसम्वन्धस्यानित्यत्वेप्यर्थप्रतिपत्तिहेतुत्वसम्भवात् । न खलु हस्तसंज्ञा दीनां खार्थेन सम्वन्धो नित्यः, तेषामनित्यत्वे तदाश्रितसम्वन्धस्य १५ नित्यत्वविरोधात् । न हि भित्तिव्यपाये तदाश्रितं चित्रं न व्यपैतीत्यभिधातुं शक्यम्। न चानित्यत्वेऽस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टम् । प्रत्यक्षविरो. धात् । एवं शब्दार्थसम्बन्धेप्येतद्वाच्यम्-स हि न तावदनाश्रितः, नभोवर्दनाश्रितस्य सम्वन्धत्वाऽसम्भवात् । आश्रितश्चेत्कि २० तदाश्रयो नित्यः, अनित्यो वा? नित्यश्चेत्, कोयं नित्यत्वेनाभिप्रेतस्तदाश्रयो नाम ? जोतिः, व्यक्तिर्वा ? न तावजातिः, तस्याः शब्दार्थत्वे प्रवृत्यायभावप्रतिपादनात्, निराकरिष्य १ न त्वौपाधिकी । २ वाच्यवाचकसामर्थम् । ३ अपरः। ४ पूर्व प्रथमपरिच्छेदे । ५ अस्य शब्दस्यायमर्थः, अस्य गोशब्दस्य सालादिमानर्थ इति च । ६ प्रागुक्ताः। ७ आदिना हस्ताङ्गुलीसंज्ञाः। ८ उदाहरणे । ९ अन्थया । १० कथम् ? तथा हि । ११ अर्थेन सह । १२ इदमित्यादिना च। १३ यथा प्रसिद्धसम्बन्धेन घटशब्देन घट एव वाच्यस्तथाऽप्रसिद्धसम्बन्धेनापि घटशब्देन घट एव वाच्य इति । १४ शब्देन। १५ वदन्ति । १६ आदिना नयनाङ्गुल्यादिसंशाः । १७ विनाशे। १८ विनश्यति । १९ वक्तुम् । २० अन्यथा । २१ प्रत्यक्षेण सिद्धा हस्तसंज्ञादयोऽनित्या यतः। २२ अनित्यहस्तसंशादिसम्बन्धस्यार्थप्रतिपत्तिप्रतिपादकत्वप्रकारेण। २३ ताद्विः। २४ वक्ष्यमाणम् । २५ अन्यथा । २६ अमूर्तनभोवत् । २७ गगनस्य त्वर्थेन सम्बन्ध उपचारत एव, न तु साक्षान्तस्याऽमूर्त्तत्वात् । २८ दृष्टः। २९ सामान्यम्। ३० विशेषः। ३१ यदा सामान्यरूपौ शब्दार्थों सम्बन्धस्य वाच्यवाचकरूपस्याधारभूतौ तदा तावेव विषयीकुर्याच्छब्द इति भावः । ३२ आदिना निवृत्तिः। ३३ पूर्वम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy