________________
४२६
प्रमेयकमलमार्तण्डे ३. परोक्षपरि० प्रवृत्तिर्नास्ति तथा चक्षुरप्राप्यकारित्वप्रघट्टके प्रतिपादितम् । इत्यलमतिविस्तरेण ?
यञ्चान्यदुक्तम्-'देशभेदेन भिन्नत्वम् इत्यादितदप्यसारम् । यतो यदि प्रत्यक्षमेवानुमानस्य बाधकं नानुमानं प्रत्यक्षस्य; तर्हि ५चन्द्रार्कादौ स्थैर्याध्यक्षं देशाद्देशान्तरप्राप्तिलिङ्गजनितगत्यनुमानेन बाध्यं न स्यात् । अथास्य प्रत्यक्षरूपतैव नास्ति वाधित विषयत्वात्। तत्प्रकृतेपि समानम् , लूनपुनर्जातनखकेशादिवत्सादृश्यप्रतीत्या तन्नानात्वप्रसाधकानुमानेन चाऽत्राप्येकत्वप्रतीतेर्वाधितविषयत्वाऽविशेषात् । अतोऽयुक्तमेतत्१० "स एवेति मतिनापि सादृश्यं न च तत्कंचित् । विनावयवसामान्यैर्वर्णववयवा न च ॥"
[मी० श्लो० स्फोटवा० श्लो० १८] इति । अवयवसामान्यस्याप्यत्रात एव प्रसिद्धः । तेनायुक्तमुक्तम्'पर्यायेण' इत्यादिः देवदत्ते हि ‘स एवायम्' इति प्रत्ययः, अन्न १५तु 'तेनेन चायं सदृशः' इति । न च सदृशप्रत्ययादेकत्वम् । गोगवययोरपि तत्प्रसङ्गात् । यद्यप्युच्यते
"जैनकोपिलनिर्दिष्टं शब्दश्रोत्रादिसर्पणम्। साँधीयोऽस्मात्तदप्यत्र युत्या नैवावतिष्ठते ॥ १॥"
मी० श्लो० शब्दनि श्लो० १०६] २० जैनेन हि निर्दिष्टं श्रोतारं प्रति शब्दस्य सर्पणं कापिलेन तु
वक्तारम् । श्रोत्रौदेर्यत्तदेव साधीयोऽस्मान्नैयायिकोपकल्पितात् । वीचीतरङ्गन्यायेन शब्दस्यामूर्तस्यागमनात् । तदप्यत्र युक्त्या नैवावतिष्ठते । यस्मात्
"शब्दस्यागमनं तावदृष्टं परिकल्पितम् । २५ मूर्तिस्पादिमत्त्वं च तेषामभिभवः सताम् ॥१॥
१ चक्षुरश्मीनां विषयं प्रति गमननिराकरणेन । २ बाधकम् । ३ प्राहि । ४ स्थैर्यलक्षणस्य । ५ गकारे । ६ कथम् । ७ गकार। ८ गकारे । ९ सादृश्यप्रतीत्यैकत्वप्रतीवेर्वाधितविषयत्वं यतः। १० स एवायं गकारादिः। ११ गकारादौ । १२ वर्णानां निरंशत्वात् । १३ अंशाः । १४ तेन सदृशोयं गकारः। १५ वर्णेन । १६ वर्णः। १७ अन्यथा। १८ मीमांसकेन। १९ साङ्ख्य । २०. श्रेयः । २१ अग्रे वक्ष्यमाणात्। २२ जगति वर्णेषु वा । २३ मीमांसकस । २४ गमनम् । २५ लहरी। २६ कुतः । २७ प्रत्यक्षादिप्रमाणेनाप्रातीतिकम् । २८ कुड्यादिना तिरोभावः।