SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ सू० ३।९९] शब्दनित्यत्ववादः - तदप्ययुक्तम्। उक्तदोषादेव, तथाहि-यदैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं संस्कृतं वर्ण प्रतिपद्यते तदा तत्रत्यसर्ववर्णान्प्रतिपद्येत संस्कृतं च वर्ण सर्वत्र सर्वदाऽवस्थितत्वेन, अन्यथा तत्प्र. तीतिरेव न भवेत्तदात्मकत्वात्तस्य । अतो व्यङ्ग्यव्यञ्जकभावस्य विचार्यमाणस्याऽयोगान्न व्यञ्जकध्वन्यधीनो विभिन्नदेशकालख-५ भावतथा शब्दयोपलम्भोऽपि तु तत्स्वभावभेदनिवन्धनः । यच्चोक्तम्-'जलपात्रेषु च' इत्यादि; तदप्यसाम्प्रतम् । तत्रोपलभ्यमानस्यादित्यप्रतिविम्बस्यानेकत्वात् । 'गगनतलावलम्बी हि सविता तत्रोपलभ्यते' इत्यत्र न प्रत्यक्षं प्रमाणं तत्स्वरूपाप्रतिभासनात् । तस्य हि खरूपं गगनतलावलम्बि चैकं च, तन्नाव-१० भासते । यच्चावभासि जलपात्रावलम्बि चानेकं च, तदृक्षच्छायादिवद्वस्त्वन्तरमेव । न चान्यप्रतिभासेऽन्यप्रतिभासो नामाऽतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् । कमनीयकामिनीनयनयोरपि तत्प्रसङ्गात् । नापि तद्विकारे जल. भानुविकारादेकत्वम् ; वृक्षच्छाययोरपि तत्प्रसङ्गात् । १५ ननुतत्र तत्प्रतिविम्वानां वस्त्वन्तरत्वे कुतःप्रादुर्भावः स्यादिति चेत् ? जलादित्यादिलक्षणस्वसामग्रीविशेषात् । तर्हि स्वच्छताविशेषसद्भावाजलादर्शादयो मुखादित्यादिप्रतिविम्वाकारविकारधारिणः कस्मान्न सर्वदोपलभ्यन्ते इति चेत् ? खेसामग्र्यऽभावतोऽभावाच्छब्दसुखादिवत् । कश्चिद्धि विकारः सहकोरिनि-२० वृत्तावप्यनिवर्तमानो दृष्टो यथा घटादिः, कश्चित्तु निवर्तमानो . यथा शब्दादिः, अचिन्त्यशक्तित्वाद्भावानाम् । ताल्वादिव्यापारसहकारिनिवृत्तौ हि पुगलँस्य श्रावणस्वभावव्यावृत्तिः । स्त्रग्वनितानिवृत्तौ चाल्हादनाकारल्यावृत्तिरात्मनः सकलजनप्रसिद्धा, एवमादित्यादिसहकारिनिवृत्तौ जलादेस्तत्प्रतिविम्वाकारनिवृ-२५ त्तिरविरुद्धा। ततो निराकृतमेतत्-'अत्र ब्रूमो यदा तावजले सौर्येण' इत्यादि। खप्रदेशस्थतया सवितुर्ग्रहणासिद्धेः। 'चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्' इति चातीवाऽसङ्गतम् ; प्रमाणाभावात् । न हि चक्षु. स्तेजांसि जलेनाभिसम्बन्ध्य पुनः सवितारं प्रति प्रवर्त्तितानि ३० प्रत्यक्षादिप्रमाणतः प्रतीयन्ते । यथा च चतूरश्मीनां विषयं प्रति १ सुखादिप्रतिबिम्बाकारस्य। २ चक्रचीवरादि । ३ उत्पत्तेरुत्तरकाले । ४ आदिना सुखम् । ५ कथम् । ६ शब्दरूपस्य । ७ व्याघुट्टनम् । ८ यस्सादस्त्वन्तरत्वं सिद्धं प्रतिबिम्बानाम् । ९ पुनः। १० सौर्येण तेजसा। ११ घटादिपदार्थम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy