________________
३९२
प्रमेयकमलमार्तण्डे ३. परोक्षपरि० सत्त्वेनाप्यसम्बन्धात् ! सम्बन्धे वा तद्वदऽनागतकालसम्बद्धधर्मादिस्वरूपेणागि लम्वन्धसम्भवान्न धर्मशप्रतिषेधः स्यात् ।
नाप्यनुमान तत्प्रसाधकम्; तद्धि कऽस्मरणहेतुप्रभवम् , वेदाध्ययनशब्दवाच्यत्वलिङ्गजनितं वा स्यात्, कालत्वसाधनस२मुत्थं वा? तत्राद्यपक्षे किमिदं कर्तुरस्मरणं नाम-कर्टस्मरणाभावः, अमर्यमाणकर्तृकत्वं वा ? प्रथमपक्षे व्यंधिकरणाऽसिद्धो हेतुः, कर्तृस्मरणाभावो ह्यात्मन्यपौरुषेयत्वं वेदे वर्तते इति ।
द्वितीयपक्षे तु दृष्टान्ताभावः; नित्यं हि वस्तु न मर्यमाणकर्तृकं नाप्यस्मर्यमाणकर्तृकं प्रतिपन्नम्, किन्त्वकर्तृकमेव । हेतुश्च व्यर्थ१० विशेषणः; सैति हि कर्तरि स्मरणमस्मरणं वा स्यान्नासति खरविषाणवेत् । अथाऽकर्तृकत्वमेवात्र विवक्षितम् ; तर्हि स्मर्यमाणग्रहणं व्यर्थम् , जीर्णकूपप्रासादादिभिर्व्यभिचारश्च । अथ सम्प्रदायाँऽविच्छेदे सत्यऽस्मर्यमाणकर्तृकत्वं हेतुः, तथाप्यनेकान्तः ।
सन्ति हि प्रयोजनाभावादस्मर्यमाणकर्तृकाणि 'वटे वटे वैश्रवणः' १५[ ] इत्याद्यनेकपदवाक्यान्यविच्छिन्नसम्प्रदायानि ।
न च तेषामपौरुषेयत्वं भवतापीष्यते । असिद्धश्चायं हेतुः; पौराणिका हि ब्रह्मकर्तृकत्वं स्मरन्ति "वक्त्रेभ्यो वेदास्तस्य विनिःसृताः"[ ] इति । "प्रेतिमन्वन्तरं चैव श्रुतिरन्या विधीयते"[ ] इति चाभिधानात् । “यो वेदांश्च २० प्रहिणोति" इत्यादिवेदवाक्येभ्यश्च तत्कर्ता मर्यते ।
स्मृतिपुराणादिवच्च ऋषिनामाङ्किताः काण्वमाध्यन्दिनतैत्तिरीयादयः शाखाभेदाः कथमसर्यमाणकर्तृकाः? तथाहि-एतास्तत्कृत
१ न केवलमनादिकालेन । २ अनुष्ठेयत्वेन । ३ पुण्य । ४ आदिना पापम् । ५ इति । ६ कर्तृविषयं यत्स्मरणं ज्ञानं तस्याभावः। ७ मर्यमाणकर्तृप्रतिषेधः । ८ आकाशवदिति दृष्टान्तः। ९ भिन्नाधिकरणः सन्। १० दृष्टान्ते । ११ व्यर्थविशेषणः कथमित्युक्ते आह। १२ खरविषाणे यथा स्मरणमस्मरणं वा नास्ति कर्बsभावात् । १३ अनुमाने। १४ वेदे वर्णक्रमः पाठक्रमः उदात्तादिक्रमश्च सम्प्रदायः। १५ चत्वरे चत्वरे ईश्वरः पर्वते पर्वते रामः सर्वत्र मधुसूदनः । सा ते भवतु सुप्रीता देवी गिरिनिवासिनी । विद्यारम्मं करिष्यामि सिद्धिर्भवतु मे सदा । १६ कथम् । १७ चतुर्थ्यः। १८ ब्रह्मणः। १९ अमर्यमाणकर्तृकस्य हेतोरनैकान्तिकत्वासिद्धत्वे ते उद्भाव्य पुनरप्यसिद्धत्वमुद्भावयन्ति । २० एकरसान्मनोः सकाशादपरो मनुः मन्वन्तरम् । तत्तत्प्रति प्रतिमन्वन्तरम् । २१ वेदः। २२ स्मृतिः । २३ भिन्ना। २४ करोति । २५ प्रसन्नो भवतु इत्यादिभ्यश्च । २६ सन्तानः । २७ गोत्रभेदाः।