SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ सू० ३।९४-९९] वेदापौरुषेयत्ववादः ३९१ आप्तवचनादिनिबन्धनमर्थज्ञानमागमः॥ ९९ ॥ आतेन प्रणीतं वचनमातवचनम् । आदिशब्देन हस्तसंज्ञादिपरिग्रहः। तन्निवन्धनं यस्य तत्तथोक्तम् । अनेनाक्षरश्रुतमनक्षरश्रुतं च सहीतं भवति । अर्थज्ञानमित्यनेन चान्यापोहज्ञानस्य शब्दसन्दर्भस्य चागमप्रमाणव्यपदेशाभावः। शब्दो हि प्रमाण-५ कारणकार्यत्वादुपचारत एक प्रमाणव्यपदेशमर्हति । ननु चातीन्द्रियार्थस्य द्रष्टुः कस्यचिदाप्तस्याभावात् तत्राऽपौरुपेयस्यागमस्यैव प्रामाण्यात् कथमाप्तवचननिवन्धनं तद् ? इत्यपि मनोरथमात्रम् ; अतीन्द्रियार्थद्रष्टुर्भगवतः प्राक्प्रसाधितत्वात्, अगमस्य चाऽपौरुषेयत्वासिद्धः। तद्धि पदस्य, वाक्यस्य, वर्णानां १० वाऽभ्युपगम्येत प्रकारान्तराऽसम्भवात् ? तत्र न तावत्प्रथमद्वितीयविकल्पौ घटेते; तथाहि-वेदपदवाक्यानि पौरुपेयाणि पद्वाक्यत्वाद्भारतादिपवाक्यवत् ।। अपौरुषेयत्वप्रसाधकप्रमाणाभावाच्च कथमपौरुपेयत्वं वेदस्योपपन्नम् ? न च तत्प्रसाधकमामाणाभावोऽसिद्धः; तथाहि-तत्प्र-१५ साधकं प्रमाणं प्रत्यक्षम्, अनुमानम्, अर्थापत्त्यादि वा स्यात् ? न तावत्प्रत्यक्षम्। तस्य शब्दस्वरूपमात्रग्रहणे चरितार्थत्वेन पौरुषेयत्वापौरुषेयत्वधर्मग्राहकत्वाभावात् । अनादिसत्त्वखरूपं चापौरुषेयत्वं कथमक्षप्रभवप्रत्यक्षपरिच्छेद्यम् ? अक्षाणां प्रतिनियतरूपादिविषयतया अनादिकालसम्वन्धाऽभावतस्तत्सम्बन्ध-२० १ मुखेन संशा। २ अर्थज्ञानमित्येतावत्युच्यमाने प्रत्यक्षादावतिव्याप्तिरत उतं वाक्यनिबन्धनमिति । वाक्यनिबन्धनमर्थशानमित्युच्यमानेपि यादृच्छिकसंवादिषु विप्रलम्भवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसगादिशानेष्वतिव्याप्तिः अत उक्तमाप्तेति । आप्तवाक्यनिबन्धनशानमित्युच्यमानेप्याप्तवाक्यकर्मके (कारणे) श्रावणप्रत्यक्षेऽतिव्याप्तिरत उक्तमथेति । अर्थस्तात्पर्यरूढः प्रयोजनारूढ इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात् वचसा प्रयोजनस्य प्रतिपादकत्वात् । ३ आप्तवचनादि । ४ अर्थज्ञानस्य । ५ आदिपदेन । ६ आप्तशब्दोपादानादपौरुषेयव्यवच्छेदः । ७ अन्यस्मात्पदार्थादन्यस्य पदार्थस्यापोहो निराकरणं तस्य व्यावृत्तिरूपापोहविषय एव शब्दो न त्वर्थविषय इति बौद्धः। ८ अगोः व्यावृत्तिः । व्यावृत्तिस्तुच्छा अर्थरूपा न भवति । ९ शब्द एवार्थो न बाह्यार्थः। १० शान । ११ ता। १२ गणधरादिप्रतिपाद्यञ्चानापेक्षया कारणत्वं शब्दस्य (दिव्यध्वनेः)। १३ प्रतिपादकशानस्य (सर्वशशानस्य ) हि कार्य शब्दः। १४ अर्थशानम् । १५ परेण मीमांसकेन। १६ श्रावणप्रत्यक्षम् । १७ बसः। १८ ता।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy