SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ सू० ३।७८-७९] हेतोः प्रकाराः यश्च यद्देशाधेयतया कल्पितो घटः स एव तेनैकज्ञानसंसी, न देशान्तरस्थः । ततश्चैकज्ञानसंसर्गिपदार्थान्तरोपलम्भे योग्यतया सम्भावितस्य घटस्योपलब्धिलक्षणप्राप्तानुपलम्भः सिद्धः। ननु चैकज्ञानसंसर्गिण्युपलम्यमाने सत्य पीतरविषयज्ञानोत्पादनशक्तिः सामग्र्याः समस्तीत्यवसातुं न शक्यते, प्रभाववतो५ योगिनः पिशाचादेर्वा प्रतिवन्धात्सतोपि घटस्यैकज्ञानसंसर्गिणि प्रदेशादावुपलभ्यमानेप्यनुपलस्मसम्भवात् ; तयुक्तम् । यतः प्रदेशादिनैकज्ञानसंसर्गिण एव घटस्याभावो नान्यस्य । यस्तु पिशाचादिनाऽन्यत्वमापादितः स नैव निषेध्यते । इह चकज्ञानसंसर्गिभासमानोर्थस्तज्ज्ञानं च पर्युदासवृत्त्या घटस्याऽसत्तानुप-१० लब्धिश्चोच्यते। ननु चैवं केवलभूतलस्य प्रत्यक्षसिद्धत्वात्तद्रूपो घटाभावोपि सिद्ध एवेति किमनुपलम्भसाध्यम् ? सत्यमेवैतत् ,तथापि प्रत्यक्ष प्रतिपन्नेप्यभावे यो व्यामुह्यति साह्वयादिः सोनुपलम्भ निमित्तीकृत्य प्रतिपाद्यते । अनुपलम्भनिमित्तो हि सत्वरजस्तमःप्रभृति-१५ वसद्व्यवहारः । स चात्राप्यस्तीति निमित्तप्रदर्शनेन व्यवहारः प्रसाध्यते । दृश्यतेहि विशाले गवि लालादिमत्वात्प्रवर्तितमोव्यवहारो मूढमतिर्विशङ्कटे सादृश्यमुत्प्रेक्षमाणोपि न गोव्यवहार प्रवर्त्तयतीति विशङ्कटे वा प्रवर्तितो गोव्यवहारो न विशाले, स निमित्त प्रदर्शनेन गोव्यवहारे प्रवर्त्यते । सोनादिमन्मात्रनिमि-२० त्तको हि गोव्यवहारस्त्वया प्रवर्तितपूर्वो न विशालत्वविशङ्कटत्वनिमित्तक इति । तथा महत्यां शिंशपायांप्रवर्तितवृक्षव्यवहारो मूढमतिः स्वल्पायां तस्यां तन्यवहारमप्रवर्त्तयन्निमित्तोपदर्शनेन प्रवर्त्यते वृक्षोयं शिंशपात्वादिति । व्यापकानुपलब्धिर्यथा १ घटप्रदेशयोभिन्नज्ञानग्राह्यत्वादेकशानसंसर्गित्वाभावो भूतस्येत्युक्ते आह । २ कल्पितस्य घटस्यैकज्ञानसंसर्गित्वं सिद्धं यतः। ३ भूतल। ४ दृश्यत्वेन । ५ प्रदेशे । ६ घट । ७ अतिशयवतो मायाविनः कुतश्चित् । ८ भिन्न शानसंसर्गिणः । ९ अदृश्यत्वम् । १० कुतो न प्रतिषेध्येतेत्युक्ते आह । ११ भूतललक्षणः । १२ जैनैः। १३ भूतलसद्भाव एव घटाभाव इत्येवम् । १४ अनेन हेतुना। १५ प्रतिबोध्यते । १६ प्रत्यक्षसिद्धेऽभावे व्यवहारः स्वयमेव स्यान्नान्यसाद, ततोऽनुपलम्भो व्यर्थ इत्युक्ते आह । १७ सत्वे रजो नास्त्यनुपलब्धेरिति । १८ कथं निमित्तप्रदर्शनमित्याह स चात्राप्यस्तीति । १९ अस्मिन् । २० हस्ते । २१ सानादिमत्त्वादि निमित्तम् । २२ कथम् । २३ काष्ठादिसहकारिवैकल्याभावतः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy