SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ . ३५६ प्रमेयकमलमार्त्तण्डे [ ३. परोक्षपरि० न खलु सत्त्वादिर्विपेक्ष एवासत्वेन निश्चितः, सपक्षेपि तदसत्त्वनिश्वयात् । ५ सपक्षस्याभावात्तत्र सत्त्वादेरसत्त्वनिश्चयान्निश्चय हेतुत्वम्, न पुनः श्रावर्णत्वादेः सद्भावेपीति चेत्; ननु श्रावणत्वादिरपि यदि ५ सपक्षे स्यात्तदा तं व्याप्नुयादेवेति समानान्तर्व्याप्तिः । सति विपक्षे धूमादिश्वासत्त्वेन निश्चितो निश्चयहेतुर्मा भूत् । विपक्षे सत्यसति चासत्त्वेन निश्चितः साध्याविनाभावित्वाद्धेतुरेवेति चेत्; तर्हि सपक्षे सत्यति चासवेन निश्चितो हेतुरस्तु तत एव । नन्वेवं सपक्षे तदेकदेशे वा सन्कथं हेतुः ? 'सपक्षेऽसन्नेव हेतुः' इत्यनव१० धारणात् । विपक्षेपि तदसत्त्वानवधारणमस्तु; इत्ययुक्तम् ; साध्याविनाभावित्वव्याघातानुषङ्गात् । १३ १४ यदि पुनः सपक्षविपक्षयोरसत्त्वेन संशयितोऽसाधारण इत्युच्यते तदा पक्षत्रयवृत्तितया निश्चितया संशयितया वाsनेकान्तिकत्वं हेतोरित्यायातम् । न च श्रावणत्वादी सास्तीति १५ गमकत्वमेव । विरुद्धताप्येतेने प्रत्युक्ता । यो हि विपक्षैकदेशेपि न वर्त्तते स कथं तत्रैव वर्त्तत ? असिद्धता तु दूरोत्सारितैव, श्रावणत्वस्य शब्दे सत्त्वनिश्चयात् । तन्न पक्षधर्मत्वं सपक्षे सत्त्वं व हेतोर्लक्षणम् । " विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाव नियम निश्चय२० स्वरूपमेव । इति तदेव हेतोः प्रधानं लक्षणमस्तु किमत्र लक्षणान्तरेण ? न च सपक्षे सत्त्वाभावे हेतोरनन्वयत्वानुषङ्गः; अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत् । न खलु दृष्टान्तधर्मिण्येव साधर्म्य वैधर्म्य वा हेतोः प्रतिपत्तव्यमिति नियमो युक्तः सर्वस्य क्षणिकत्वादि२५ साधने सत्त्वादेरहेतुत्वप्रसङ्गात् । १ नित्ये । २ निश्चय हेतुत्वन् । ३ सपक्षस्य । ४ सपक्षेऽसत्त्वनिश्चयादिति शेषः । ५ साक्षे (पक्षे )। ६ श्रावणः वादेः सति विपक्षे तत्रासत्वेन निश्चितस्य स्वसाध्यसाधकत्वे अङ्गीक्रियमाणे । ७ पक्षे । ८ स्वसाध्यस्य । ९ सति विपक्षे असत्त्वाविशेषात् । १० हेतुः । ११ सपक्षे असत्त्वेन निश्चितस्य हेतुत्वप्रकारेण । १२ चेतनास्तरवः स्वापादिमत्त्वात् सत्त्वादिति हेतुः सिद्धेषु न प्रवर्त्तते अन्यत्र प्रवर्तते । १३ नित्ये । १४ न केवलं सपक्षे । १५ अनैकान्तिकत्वनिराकरणपरेण ग्रन्थेन । धर्मत्वस पक्षेसत्त्वलक्षणेन । १७ पक्षे एव । १८ अन्वयः । १९ व्यतिरेकः । २० दृष्टान्तस्यासत्वात् । १६ पक्ष
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy