SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ सू० ३.१०] प्रत्यभिज्ञानप्रामाण्यविचारः ३४३ प्रसिद्धेः । न चैकत्रैकत्वपरामर्शिप्रत्यभिज्ञानस्य मिथ्यात्वदर्शनरसर्वत्रास्य मिथ्यात्वम् : प्रत्यक्षस्यापि सर्वत्र भ्रान्तत्यानुपङ्गान्न किञ्चित्कुतैश्चित्कस्यचिन्प्रसिद्धेत् । ततो यथा शुक्ले शो पीताभासं प्रत्यक्षं तत्रैव शुल्लामालप्रत्यक्षान्तरेण वाध्यमानत्वादप्रमाणम् , न पुनः पीते कनकादा तथा प्रजननपीति । ५ कथं च प्रत्यभिज्ञानविलोपेऽनुमानप्रवृतिः? नेत्र हि पूर्वधूमोऽन्नेर्दष्टत्तस्यैव पुनः पूर्वधूमलद्दशधूनदर्शनादन्निप्रतित्तिर्युका नान्यस्यान्यदर्शनात् । न च प्रत्यभिज्ञानमन्तरेण लेनेदं सदृशम्' इति प्रतिपत्तिरस्तिः पूर्वप्रत्यक्षेणोत्तरस्य तत्प्रत्यक्षेण च पूर्वस्याग्रहणात्, द्वयप्रतिपत्तिनिवन्धनत्वादुभयसादृश्यप्रतिपत्तेः १० सम्वन्धप्रतिपत्तिवत् । ततः प्रत्यभिज्ञा प्रमाणमभ्युपगन्तव्या । तदप्रामाण्यं हि गृहीतग्राहित्वात्, स्मरणानन्तरभावित्वात् , शब्दाकारधारित्वाद्वा, वाध्यमानत्वाद्वा स्यात् ? न तावदाद्यविकल्पो युक्तः न हि तद्विपयभूतमेकं द्रव्यं स्मृतिप्रत्यक्षग्राह्यमित्युक्तम् । तदृहीतातीतवर्तमानविवर्त्ततादात्म्येनावस्थितद्रव्यस्य १५ कथञ्चित्पूर्वार्थत्वेपि तद्विपयप्रत्यभिज्ञानस्य नामामाण्यम् . लैङ्गिकादेरप्यप्रामाण्यप्रसङ्गात् तस्यापि सर्वथैवापूर्वार्थत्वासिद्धः, स. म्बन्धग्राहिविज्ञानविषयसाध्यादिसामान्यात् कथञ्चिदभिन्नस्यानुमेयस्य देशकालविशिष्टस्य तद्विषयत्वात् कथञ्चित्पूर्वार्थत्वसिद्धेः । तन्न गृहीतग्राहित्वात्तत्राप्रामाण्यम् । २० नापि स्मरणानन्तरभावित्वात् : रूपसरणानन्तरं रससन्निपाते समुत्पन्नरसज्ञानस्याप्यप्रामाण्यप्रसङ्गात् । तत्र हि रूपस्मृतेः पूर्वकालभावित्वात् लमनन्तर कारणत्वं "दोधादोधरूपता ] इत्यभ्युपगमात् । न चात्र वोधरूपतया समनन्तरकारपत्वमन्यत्र स्मृतिरूपतयेत्यभिधातव्यम्: स्मृतिरूप-बोधरूपयोस्तादात्म्ये २५ क्वचिद्बोधरूपतया तत्तस्य क्वचित्तु स्मृतिरूपतयेति व्यवस्थापयितुमशक्तेः । कथं चैवंवौदिनोऽनुमानं प्रमाणम् ? तद्धि लिङ्गलिङ्गि १ देवदत्तादावपि । २ किञ्चिद्वस्तु । ३ प्रमाणात् । ४ प्रतिपत्तः। ५ अप्रसियेद्यतः। ६ एकत्वनिबन्धस्य सादृश्यनिबन्धनस्य च । ७ देवदत्तन। ८ यशदत्तस्य । ९ विपक्षलक्षणप्रस्तरदर्शनात् । १० वृद्धत्वादिपर्यायस्य । ११ युवादिपर्यायस्य । १२ संयोगादि। १३ द्रव्यापेक्षया । १४ आदिना शब्दस्य । १५ तर्क । १६ आदिना साधनम्। १७ अग्न्यादेः। १८ सान्निध्ये। १९ स्मृतिरूपता बोधरूपता चास्ति स्मरणशानस्य । २० स्मृतौ। २१ स्मरणानन्तरभावित्वान प्रमाणं प्रत्यभिशा इत्येवम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy