SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ३४२ . प्रमेयकालमार्तण्डे [३. परोक्षपरिक ननु स एवायमित्याकारद्वयं किं परस्परानुप्रवेशेन प्रतिभासते. अननुप्रवेशेन वा? प्रथमपक्षेऽन्यतरीकारस्यैव प्रतिभासः स्यात। द्वितीयपक्षे तु परस्परविविक्तप्रतिभासद्वयप्रसङ्गः । अथ प्रतिभा सद्वयमेकाधिकरणमित्युच्यते; न; एकाधिकरणत्वासिद्धेः। न खल ५परोक्षापरोक्षरूपी प्रतिभासावेकमधिकरणं विभ्राते संबसंविदामेकाधिकरणत्वप्रसङ्गात् । इत्यप्यसारम् ; तदाकारयोः कथञ्चित्परस्परानुप्रवेशेनात्माधिकरणतयात्मन्येवानुभवात् । कथं चैववादिनश्चित्रज्ञानसिद्धिः? नीलादिप्रतिभासानां परस्परानुप्रवेशे सर्व षामेकरूपतानुषङ्गात् कुतश्चित्रतैकनीलाकारज्ञानवत् ? तेषां तदान१० नुप्रवेशे भिन्नसन्ताननीलादिप्रतिभासानामिवात्यन्तभेदसिद्धेनितरां चित्रताऽसम्भवः । एकज्ञानाधिकरणतया तेषां प्रत्यक्षतः प्रतीतेः प्रतिपादितदोषाभावे प्रकृतेप्यसौ मा भूत्तत एव । अथोच्यते-'पूर्वमुत्तरं वा दर्शनमेकत्वेऽप्रवृत्तं कथं स्मरणसहायमपि प्रत्यभिज्ञानमेकत्वे जनयेत् ? न खलु परिमलस्मरण१५ सहायमपि चक्षुर्गन्धे ज्ञानमुत्पादयति' इति; तदप्युक्तिमात्रम् तथा च तजनकत्वस्यात्र प्रमाणप्रतिपन्नत्वात् । न च प्रमाणप्रतिपन्नं वस्तुखरूपं व्यलीकविचारसहस्रेणाप्यन्यथाकर्तुं शक्यं सहकारिणां चाचिन्त्यशक्तित्वात् । कथमन्यथाऽसर्वज्ञज्ञानमभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयेत् ? एकत्वविषयत्वं च दर्शन२० स्यापि, अन्यथा निर्विषयकत्वमेवास्य स्यादेकान्ताऽनित्यत्वस्य कदाचनाप्यप्रतीतेः। केवलं तेनैकत्वं प्रतिनियतवर्तमानपर्यायाधारतयार्थस्य प्रतीयते, स्मरणसहायप्रत्यक्षजनितप्रत्यभिज्ञानेन तु स्मयमाणानुभूयमानपर्यायाधारतयेति विशेषः। न च लूनपुनर्जातनखकेशादिवत्सर्वत्र निर्विषया प्रत्यभिज्ञा; २५क्षणक्षयैकान्तस्यानुपलम्भात् । तदुपलम्भे हि सा निर्विषया स्यात् एकचन्द्रोपलम्भे द्विचन्द्रप्रतीतिवत् । लूनपुनर्जातनखकेशादौ च स एवायं नखकेशादिः' इत्येकत्वपरामर्शिप्रत्यमिशानं 'लूननखकेशादिसदृशोयं पुनर्जातनखकेशादिः' इति साह श्यनिवन्धनप्रत्यभिज्ञानान्तरेण बाध्यमानत्वादप्रमाणं प्रसिद्धम् , ३०न पुनः सादृश्यप्रत्यवमर्शि तत्रास्याऽवाध्यमानतया प्रमाणत्व १ उभयोर्मध्ये । २ एकशानस्य । ३ भिन्न । ४ एकत्वहानिः स्यादिति दूषणम् । ५ एकशान । ६ जनैः। ७ देवदत्तयज्ञदत्तादि । ८ द्रव्यापेक्षया। ९ एकाधिकरणप्रतीतेः। १० प्रत्यक्षम् । ११ पूर्वोत्तरविवर्तवत्येकत्वे । १२ दर्शनस्य । १३ प्रत्यक्ष । १४ अभावरूपत्वेन । १५ सहकारिणामचिन्त्यशक्तित्वं यदि न स्यात् । १६ न केवलं प्रत्यभिज्ञानस्य । १७ दर्शनमेकत्वविषयं यदि न स्यात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy