________________
३३८
प्रमेयकमलमार्तण्डे ३. परोक्षपरि० कलिङ्कलिङ्गिताम्वन्धः सत्तामात्रेणानुमानप्रवृत्तिहेतः, तदर्शनात, तत्स्मरणाद्वा? तत्राद्यविकल्ये नालिकरहीणायात प्रतिपन्नाग्निधूमलम्वन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिः स्यात, न चाविज्ञातः सम्वन्धोस्ति उपलम्भनिवन्धनत्वात्सव्यवहार ५अन्यथातिप्रसङ्गात् । तदर्शनमात्रेण तत्प्रवृत्तौ वालावस्थायां प्रति पन्नाग्निधूमसम्वन्धस्य पुनर्वृद्धदशायां धूमदर्शनादग्निप्रतिपत्ति प्रसङ्गः,न चैवम् । तत्स्मृतावस्त्येवेति चेत् कथं नासौ प्रमाणम? को हि स्मृतिपूर्वकमनुमानमभ्युपगम्य पुनस्तां निराकुर्यात् ? अनमानस्यापि निराकरणानुषङ्गात् । न खलु कारणाभावे कार्योत्पत्ति१० माऽतिप्रसङ्गात् ।
समारोपव्यवच्छेदकत्वाचास्याः प्रामाण्यमनुमानवत् । न च स्मृतिविषयभूते सम्वन्धादौ समारोपस्यैवासम्भवात् कस्य व्यवच्छेद इत्यभिधातव्यम्। साधर्म्यदृष्टीन्ताभिधानानर्थक्यप्रसङ्गात । तत्र स्मृतिहेतुभूतं हि तत्, अन्यथा हेतुरेव केवलोभिधीयेत । १५ततस्तदभिधानान्यथानुपपत्तेस्तद्विषयभूते सम्वन्धादौ विस्मरणसंशयविपर्यासलक्षणः समारोपोस्तीत्यवगम्यते । तन्निराकरणाचास्याः प्रामाण्यमिति ।
अथेदानीं प्रत्यभिज्ञानस्य कारणस्वरूपप्ररूपणार्थ दर्शनेत्याद्याह२० दर्शन-स्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम्। तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि॥५
दर्शनस्मरणे कारणं यस्य तत्तथोक्तम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन प्रत्यवमर्शनं प्रत्यभिज्ञानम् । ननु प्रत्यभिज्ञायाः प्रत्य
क्षप्रमाणस्वरूपत्वात् परोक्षरूपतयात्राभिधानमयुक्तम् ; तथाहि२५ प्रत्यक्षं प्रत्यभिज्ञा अक्षान्वयव्यतिरेकानुविधानात् तदन्यप्रत्यक्ष
वत्। न च स्मरणपूर्वकत्वात्तस्याःप्रत्यक्षत्वाभावः; सत्सम्प्रयोगजत्वेन स्मरणपश्चाद्भावित्वेप्यस्याः प्रत्यक्षत्वाविरोधात् । उक्तं च
१ परपक्षप्रतिक्षेपं करोति सूरिः। २ ग्रहण। ३ अज्ञातस्यापि सत्त्वसिद्धिश्चेत् । ४ ईश्वरादेरपि सत्त्वसिद्धिप्रसङ्गात् । ५ विस्मृतसम्बन्धस्य । ६ अनुमानप्रवृत्तिः। ७ मृत्पिण्डाभावे घटोत्पत्तिप्रसङ्गात् । ८ साध्यसाधन विषये । ९ समारोपाभावे इति शेषः । १० यत्सत्तत्सर्वं क्षणिकं यथा जलधरः। ११ सम्बन्धस्मृतिहेतुभूतो दृष्टान्तो यदि न स्यात् । १२ एकत्वसादृश्यादिलक्षण! १३ पुनर्ग्रहणम् । १४ मीमांसकः। १५ परोक्षप्रमाणे। १६ सतो विद्यमानस्यार्थस्येन्द्रियेण सह संयोगः सन्निकर्षस्तमाजातः सत्सम्प्रयोगजस्तस्य भावस्तत्त्वं तेन ।