SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ सू० ३।४-५] स्मृतिप्रामाण्यविचारः तया वस्तुप्रतिभासः तथैव स्मृतौ तत्र तस्या (तस्य ) वैशद्याऽप्रतीतेः। पुनः पुनर्भावयतो वैशद्यप्रतीतिस्तु भावनाज्ञानम्, तच्च तद्रूपतया भ्रान्तमेव स्वप्नादिज्ञादयत् । तथाप्यनुभूतार्थविषयत्वमात्रेणास्याः प्रामाण्यानभ्युपगने अनुमानेनाधिगतेऽग्नौ यत्प्रत्यक्ष तदप्यप्रमाणं स्यात् । असत्यतीतेथ प्रवतमानत्वात्तदप्रामाण्ये ५ प्रत्यक्षस्यापि तत्पलङ्गः, तदर्थस्यापि तत्कालेऽसत्त्वात् । तज्जन्मादेस्तत्रात्य प्रामाण्ये स्मरणेपि तदस्तु । निराकृतं चार्थजन्मादि ज्ञानस्य प्रागेवेति कृतं प्रयासेन । न चाविसंवादकत्वं स्मृतेरसिद्धम् ; स्वयं स्थापितनिक्षेपाद तगृहीतार्थे प्राप्तिप्रमाणान्तरप्रवृत्तिलक्षणाविसंवादप्रतीतेः । यत्र १० तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् । विसंवादकत्वे चास्याः कथमनुमानप्रवृत्तिः सम्वन्धस्यातोऽप्रसिद्धेः ? न च सम्बन्धस्मृतिमन्तरेणानुमानमुदेत्यतिप्रसङ्गात् । किञ्च, सम्बन्धाभावात्तस्याः विसंवादकत्वम् , कल्पितसम्वन्धविपयत्वाद्वा, सतोप्यस्याऽनया विषयीकर्तुमशक्यत्वाद्वा ? १५ प्रथमपक्षे कुतोऽनुमानप्रवृत्तिः? अन्यथा यतः कुतश्चित्सम्बन्धरहितोद्यत्र क्वचिदनुमानं स्यात् । कल्पितसम्बन्धविषयत्वेनास्याः विसंवादित्वे दृश्यप्राप्यैकत्वे प्राप्यविकल्प्यकत्वे च प्रत्यक्षानुमानयोरविसंवादो न स्यात् । तत्लम्बन्धस्य कल्पितत्वे च अनुमानमप्येवंविधमेव स्यात् । तथा च कथमतोऽभीष्टतत्त्वसिद्धिः? अथ २० सन्नपि सम्बन्धोऽनया विषयीकर्तुं न शक्यते, यत्तु विषयीक्रियते सामान्यं तस्याऽसत्त्वात् स्मृतेर्विसंवादित्वम् । तदेतदनुमानेपि समानम् ! अध्यसितखलाणाव्यभिचारित्वं स्मृतावपि । १ वैशद्यमेव नास्ति कुतः परिच्छित्तिविशेषः इत्यभिप्रायं वक्ति वाद्धः। २ अवग्राहादिभेदेनानुभवतो नरस्य । ३ क्षणिकत्वात् । ४ आदिना ताद्रूप्यन् । ५ अर्थजन्मादिनिराकरणप्रयासेन। ६ प्रत्यक्ष। ७ विस्मृतसम्बन्धस्यापि अनुमानोत्पत्तिप्रसङ्गात् । ८ दृष्टान्तसाध्यसाधनयोः। ९ सम्बन्धाभाबे अनुमानप्रवृत्तिर्यदि स्यात् । १० अर्थालिङ्गस्थानीयात् । ११ यदेव दृष्टं जलस्वलक्षणं तदेव प्राप्तमिति । १२ अनुमानलक्षणो विकल्पः । विकल्पस्य विषयो विकल्प्यो यो जलादिः । पूर्व विकल्प्यः पश्चात्प्राप्य इति । कथम् ? विवादापन्नो देशः प्रवृत्तस्य स्नानादिमान् जलत्वात्सम्प्रतिपन्नदेशवत् । इति यदेकानुमितं स्नानादिकं तदेव प्राप्तमिति। १३ स्मृतिगृह्यमाण। १४ सर्व क्षणिकं सत्त्वादिति क्षणिकत्वसिद्धिः। १५ तादात्म्यतदुत्पत्तिलक्षणः। १६ अन्यापोहः। १७ न्यायरूपमनुमानेन स्खलक्षणं विद्यमानं न विषयीक्रियते (यद्विषयीकियते) सामान्यं तद्विद्यमानं न भवतीति । १८ प्रत्यक्षेण । १९ यसः। २० खलक्षणं न व्यभिचरतीति न स्मृतेश्चेति । २१ समानम् । प्र. क० मा० २९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy