________________
श्री।
॥ अथ तृतीयः परोक्षपरिच्छेदः ॥
श
अथेदानीं परोक्षप्रमाणस्वरूप निरूपणार
परोक्षमितरत् ॥ १ ॥ इत्याह ! प्रतिपादित विशदस्वरूपविज्ञानाद्यदन्यदविशदम्बाई विज्ञानं तत्परोक्षम् । तथा च प्रयोगः-अविशदज्ञानात्मक रंगो परोक्षत्वात् । यन्नाऽविशदज्ञानात्मकं तन्न परोक्षम् यथा मुख्येतरप्रत्यक्षम् , परोक्षं चेदं वक्ष्यमाणं विज्ञानम् , तस्मादविशदनानात्मकमिति । तन्निमित्तंप्रकारप्रकाशनाय प्रत्यक्षेत्याद्याहप्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञान
तर्कानुमानागमभेदम् ॥ २॥ प्रत्यक्षादिनिमित्तं यस्य, स्मृत्यादयो भेदा यस्य तथोक्तम् ! नत्र स्मृतेस्तावन्संस्कारेत्यादिना कारणत्वरूपे निरूपयतिसंस्कारोबोधनिवन्धना तदित्याकारास्मृतिः॥३॥
संस्कारः सांव्यवहारिकप्रत्यक्षमेदो धारणा । तस्योद्बोधः प्रबोधः। स निवन्धनं यस्याः तदित्याकारो यस्याः सा तथोका ३, स्मृतिः। विनेयानां सुखावबोधार्थ दृष्टान्तद्वारेण तत्स्वरूपं निरूपयति
यथा व देवदत्त इति ॥४॥ यथेत्युदाहरणप्रदर्शने । स देवदत्त इति । एवंप्रकारं तच्छन्दपरामृष्टं यद्विज्ञानं तत्सर्वं स्मृतिरित्यवगन्तव्यम् । न चासावप्रमाणं २०
१ स्मृतिप्रत्यभिज्ञानतर्कानुमानागमविशेषाः स्वभाविनो धर्मिणः प्रसिद्धाः । तत्र परोक्षत्वं सामान्यरूपं वादिप्रतिवादिनोः प्रसिद्धस्वभावः-तेन वस्तुनोऽनेकधर्मात्मकत्वात् । तत्र स्थितो द्वितीयोऽविशदज्ञानात्मकोऽप्रसिद्धः साध्यते इति विशेषं स्वभाविनं (खभावस्वभाविनोर्मेदात् ) सामान्यस्वभावं ब्रुवतां दोषाभावात् । २ कारण । ३ मेद । ४ स्मृतिः प्रत्यक्षपूर्विका । प्रत्यभिज्ञानं प्रत्यक्षस्मरणपूर्वकम् । तर्कः प्रत्यक्षस्मरणप्रत्यभिज्ञानपूर्वकः । अनुमानं प्रत्यक्षस्मरणप्रत्यभिज्ञानतर्कपूर्वकम् । आगमस्तु श्रावणाध्यक्षसङ्केतस्मृतिपूर्वकः । ५ संस्कारस्य कारणमायं देवदत्तदर्शनम् । उद्बोधस्य कारणं पाश्चात्यं तत्सदृशतत्कार्यादिदर्शनम्। ६ प्राकट्यम् ।