________________
३२४
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
भावोऽवसीयते; ननु तद्दशाभाविज्ञानयोः सुषुप्ताद्यवस्थामाविज्ञान नोपलब्धिलक्षणप्राप्तम्, तत्कथं ताभ्यां तद्भावोऽवसीयेते? अन्यथाऽदृष्टस्यापि परलोकादेरभावोऽध्यक्षत एव स्यात् । ती च "प्रमागेतरसामान्यस्थितेः"[ ] इत्याऽसङ्गतम् । ५ नापि पार्श्वस्थोन्यस्तत्र तद्भावं प्रतिपद्यते; कारणस्वभावव्यापकानुपलब्धेविरुद्धविधेर्वा तद्भावाविनामाविनो लिङ्गस्यात्रानपलब्धेः । न तत्र विज्ञानसद्भावेपि लिङ्गाभावः समान इत्यभिधातव्यम् ; स्वात्मनि स्वसंविदितज्ञानाविनामावित्वेनाऽवधारितस्य प्राणापानशरीरोष्णताकारविशेषादेस्तत्सद्भावावेदिनो लिङ्गस्या२० त्रोपलब्धेः, जाग्रद्दशायामप्यन्यचेतोवृत्तेस्तद्ध्यतिरेकेणान्यतोऽप्रतीतेः।
ननु द्विविधोत्रं प्राणादिः चैतन्यप्रभवो जाग्रद्दशायाम् , प्राणादिप्रभवश्च सुषुप्ताद्यवस्थायामिति । तत्र चैतन्यप्रभवप्राणादेर्जा
ग्रहशायां चैतन्यानुमानं युक्तम् , न पुनः प्राणादिप्राणादेः। न १५ खलु गोपालघटादौ धूमप्रभवधूमादग्यनुमानं दृष्टम् , अग्निप्रभवधूमादेव तद्दर्शनात्; इत्यप्यसङ्गतम्; सुषुप्तेतरावस्थयोः प्राणादेविशेषाऽप्रतीतेः । यथैव हि सुषुप्तः प्राणिति तथेतरोपि, अन्यथा 'किमयं सुषुप्तः किं वा जागर्ति' इति सन्देहो न स्यात् । यदि चैते सुषुप्तस्य चैतन्यप्रभवा न स्युः किन्तु प्राणा२० दिप्रभवाः; तर्हि जाग्रतः परवञ्चनाभिप्रायेण सुषुप्तव्याजेनावस्थितस्य तादृशामेव तेषां भावो न स्यात् । न ह्यग्नेर्जायमानो धूमः प्रयत्नशतैरपि धूमादन्यतो वा जायते धूमप्रभवो वग्नेिरिति । दृश्यन्ते च ते यादृशा एव सुषुप्तस्य तादृशा एवास्यापि । तन्नते भिन्नकारणप्रभवाः । चैतन्येतैरप्रभवांश्च प्राणादीन् विवेचयन्वीत३० रागेतरप्रभवव्यापारादीनपि विवेचयतु । तथा च
"सरागा अपि वीतरागवच्चेष्टन्ते वीतरागाश्च सरागवदिति वीतरागेतरविभागो निश्चेतुमशक्यः।"[ ] इति प्लवते ।
१ ताद्विः। २ यथा घट उपलब्धिलक्षणप्राप्तो भवति तदा पश्चादन्यत्र घटाभावोऽवसीयते। ३ अनुपलब्धिलक्षणप्राप्तस्य प्रत्यक्षाघभावः स्याद्यदि । ४ प्रतिषेधाच्च कस्यचिदितिपर्यन्तम् । ५ अन्यपुरुषैः। ६ आत्मावस्थायाम् । ७ उभयोमध्ये । ८ प्रभव । ९ पुरुषः। १० श्वासोच्छासं गृह्णाति । ११ जीवति । १२ जाग्रत् । १३ उभयोः श्वासे विशेषश्चेत् । १४ यतः सादृश्य एव सन्देहः । अस्ति च सन्देहः । १५ किञ्च । १६ सुषुप्तस्य यादृशः प्राणः। १७ घटादेः । १८ धूमः । १९ न जायते । २० प्राण ।