________________
३२३
सू० २।१२] मोक्षस्वरूपविचारः म्भवात् । प्रतीत्यनतिक्रमेणात्र स्वरूपसामर्थ्यप्रतिवन्धाभ्युपगमोऽन्यत्रापि समानः । मिद्धादिसामग्रीविशेषवशाद्धि वाह्याध्यात्मिकार्थविचारविधुरं गच्छत्तृणल्पर्शज्ञानसमानं सुपुप्तावस्थायां ज्ञानमास्ते।
न हि स्वपरप्रकाशस्वभावत्वमात्रेणेवास्य तन्निरूपणसाम-५ र्थ्यम् ; सर्वत्रानभिभूतस्यैवार्थस्य स्वकार्यकारित्वप्रतीतेः, अन्यथा दहनादिस्वभावत्याः सदा दाहकत्वप्रकाशकत्वप्रसङ्गः, गच्छतृणस्पर्शसंवेदनत्य वा तदर्थनिरूपकत्वानुपङ्गः । अधात्र मनोव्यासङ्गोऽस्मरणकारणम् ; अन्यत्र मिद्धादिकमित्यविशेपः १ अस्ति चात्र स्वापलक्षणार्थनिरूपणम्-'एतावत्कालं निरन्तरसुतोहमेता-१० वत्कालं सान्तरम्' इत्यनुस्मरणप्रतीतेः। न च वापलक्षणार्थाननुभवेपि सुप्तोत्थानानन्तरं 'गाढोहं तदा सुप्तः' इत्यनुसरणं घटते: तस्यानुभूतवस्तुविषयत्वेनानुभवाविनाभावित्वात् , अन्यथा घटाद्यर्थाननुभवेपि तत्रानुसरणसम्भवात्कुतस्तदनुभवोपि सिद्ध्येत् ? न च मत्तमूर्चिछताद्यवस्थायामपि विज्ञानाभावाद् दृष्टा-१५ न्तस्य साध्यविकलता; इत्याशङ्कनीयम् तदवस्थातःप्रच्युतस्योत्तरकालं 'मश न किञ्चिदप्यनुभूतम्' इत्यनुभवाभावप्रसङ्गात् , स्मृतेरसवपूर्वकत्वात् । अतो येनानुभवेन सतात्मा निखिलानुभवविकलोऽनुभूयते तस्यामवस्थायां सोऽवश्याभ्युपगन्तव्यः।
किञ्च, सुप्ताद्यवस्थायां विज्ञानाभावं स एवात्मा प्रतिपद्यते,२० पार्श्वस्थो वा ? स एव चेत् तत एव ज्ञानात् , तद्भावाद्वा, ज्ञानान्तराद्वा? न तावत्तत एव; अस्यासत्त्वात् , 'तदेव नास्ति तत्र, तत एव चामावगतिः' इत्यन्योन्यं विरोधात् । ज्ञानाभावात्तत्र तदभावपरिच्छित्तिःः इत्ययुक्तम्, परिच्छेदस्य ज्ञानर्सतयाऽभावेऽसन्मवात्, अन्यथा ज्ञानस्यैव असावः' इति नामकृतं स्यात्। २५
अथ ज्ञानान्तरात्तत्र तदभावगतिः, किं तत्कालभाविनः, जाग्रप्रवोधकालभाचिनो का? प्रथमपक्षे कथं सुपुप्ताद्यवस्थायां सर्वथा ज्ञानाभावः? अथ जानत्प्रवोधकालभाविज्ञानाभ्यामन्तराले ज्ञाना
१ ज्ञानस्य स्वपरप्रकाशरूपं तिरोहितमतिरोहितं चैतन्यन् । २ चैतन्यस्य । ३ देशे। ४ अभिभूतस्य स्खकार्यकारित्वं यदि स्यात् । ५ प्रतिबन्धसमयेपि । ६ कायोन्तरे प्रवृत्तिः। ७ असावधानत्वं वा । ८ किञ्च । ९ तुप्तोहनिति शेषः । १० प्रत्यक्षेण। ११ अनुभवाविनाभावित्वं सरणस्य यदि न स्यात् । १२ स्मृति । १३ अन्यः । १४ सुषुप्तावस्थायां यस्य ज्ञानस्याभावस्तस्मादेव ज्ञानात् । १५ शानस्य । १६ शानाभावे परिच्छेदो यदि स्यात् । १७ शानमन्तरेण परिच्छेदानुपपचिर्यतः । १८ सन्ध्याकालप्रातःकालः, तत्र भावि ।