SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ सू० २११२] कवलाहारविचारः २९९ प्रसङ्ग इति ? अत्रोच्यते-तेपामुद्धृतवृत्तित्वं नित्यम् , अनित्यं वा? न तावन्नित्यम् ; कादाचित्कत्वात, स्थित्यादीनां योगपद्यप्रसङ्गाच्च । अथानित्यम्; कुतोऽस्य प्रादुर्भावः ? प्रकृतीश्वरादेव, अन्यतो वा हेतोः, स्वतन्त्रो वा? प्रथमपक्षे सदास्य सद्भावप्रसङ्गः, प्रकृतीश्वराख्यस्य हेतोर्नित्यरूपतया सदा सन्निहितत्वात् । न चान्यतस्त-५ त्प्रादुर्भावो युक्तः; प्रकृतीश्वरव्यतिरेकेणापरकारणस्यानभ्युपगनात् । तृतीयपक्षे तु कादाचित्कत्वविरोधोऽस्य स्वातब्येण भवतो देशकालनियमायोगात् । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्काः स्युः तद्भावाभावप्रतिवद्धत्वात्तत्सत्त्वालत्त्वयोः, नान्ये तेषामपेक्षणीयस्य कस्यचिदभावात् । १० किञ्च, आत्मानं जनयत्ति भावो निष्पन्नः, अनिप्पन्नो वा? न तावन्निप्पन्नः; तस्यामवस्थायामात्मनोपि निप्पन्नरूपाव्यतिरेकितया निष्पन्नत्वान्निष्पन्नस्वरूपवत् । नाप्यनिष्पन्नः, अनिप्पन्नखरूपत्वादेव गगनाम्भोजवत् । तस्मात्प्रकारान्तरेणाशेषज्ञत्वासिद्धेरावरणापाये एवाशेपविषयं विज्ञानम् । तच्चात्मन एवेति परीक्षा-१५ दक्षैः प्रतिपत्तव्यम् । तच्च विज्ञानमनन्तदर्शनसुखवीर्याविनाभावित्वादनन्तचतुष्टयस्वभावत्वमात्मनः प्रसाधयतीति सिद्धो मोक्षो जीवस्यानन्तचतुष्टयस्वरूपलानलक्षणः, तसापेतप्रतिवन्धकस्यामखरूपतया जीवन्मुक्तिवत्परममुक्तावप्यभावासिद्धेः ॥ ये त्वात्मनो जीवन्मुक्तौ कवलाहारमिच्छन्ति तेषां तत्रास्यान-२० न्तचतुष्टयस्वभावाभावोऽनन्तसुखविरहात् । तद्विरहश्च बुभुक्षाप्रभवपीडाक्रान्तत्वात् । तत्पीडाप्रतीकारार्थी हि निखिलजनानां कवलाहारग्रहणप्रयासःप्रालिद्धः । ननु भोजनादेः सुखायलत्वात्कथं भगवतोऽतोऽनन्तसुखाद्यभावः ? दृश्यते हासदाद क्षुत्पीडिते निश्शक्तिके च भोजनसद्भावे सुखं वीर्य चोत्प-२५ द्यमानम् ; इत्यप्ययुक्तम् । अस्मदादिसुखादेः कादाचित्कतया विषयेभ्य एवोत्पत्तिसम्भवात् । भगवत्सुखादेश्च तत्सम्भवेऽनन्तताव्याघातः । तथाहि-क्षुत्क्षामकुक्षिनिश्शक्तिकश्चासौ यदा कवलाहारग्रहणे प्रवृत्तस्तदैव तदीयसुखवीर्ययोनष्टत्वात्कुतोऽनन्तता? वीतरागद्वेषत्वाच्चास्य तद्रहणप्रयासायोगः । प्रयोगः-केवली न ३० १ कारणस्य । २ जायमानस्य। ३ कार्यलक्षणाद्भावादपरः कारणलक्षणो भावः स्वभावान्तरम् । ४ कारणाधीनवृत्तय इत्यर्थः। ५ तस्य कार्यस्य । ६ स्वरूपम् । ७ कार्यलक्षणः। ८ निष्पन्नायाम् । ९ जगत्कर्तृत्वादिलक्षणेन । १० जीवमयत्वेन । ११ श्वेतपटाः । १२ भगवदीय ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy