SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ २९८ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ज्ञानोत्पत्तिसामर्थ्याभावे सहितानामप्यसौ युक्तः, तर मात्रम् ; यतः साहित्यं नामानयोरन्योन्यं सहकारित्वम् । तचान्योन्यातिशयाधानाद्वा स्यात् , एकार्थकारित्वाद्वा? व तावदादा कल्पना युक्ता; नित्यत्वेनानयोर्विकाराभावात् । नापि द्वितीय ५कल्पना युक्ता कार्याणां योगपद्यप्रसङ्गात् । अप्रतिहत सामय श्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणत्वाने पाम् । तथाहि-यद्यदाऽविकलकारणं तत्तदा भवत्येव यथाऽन्यक्षणप्राप्तायाः सामग्रीतोऽङ्कुरः, अविकलकारणं चाशेष कार्यमिति । ननु यद्यपि कारणद्वयमेतन्नित्यं सन्निहितं तथापि क्रमेणैवासी १० कार्यभेदाः प्रवर्तिप्यन्ते । महेश्वरस्य हि प्रधानगताः सत्त्वाद स्त्रयो गुणाः सहकारिणः, तेषां च क्रमवृत्तित्वात्कार्याणामपि क्रमः । तथाहि-यदोद्भूतवृत्तिना रजसा युक्तो भवत्यसौ तदा सर्गहेतुः प्रजानां भवति प्रसवकार्यत्वाद्रजसः, यदा त सत्त्व मुद्भूतवृत्ति संश्रयते तदा लोकानां स्थितिकारणं भवति सत्त्वस्य १५स्थितिहेतुत्वात् , यदा तमसोद्भूतशक्तिना समायुक्तो भवति तदा प्रलयं सर्वजगतः करोति तमसः प्रलयहेतुत्वात् । तदुक्तम्"रजोजषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशहेतवे यीमयाय त्रिगुणात्मने नमः ॥१॥" [कादम्बरी पृ० १] २० इत्ययसाम्प्रतम्; यतः प्रकृतीश्वरयोः सर्गस्थितिप्रलयानां मध्येऽन्यतमस्य क्रियाकाले तदपरकार्यद्वयोत्पादने सामर्थ्यमस्ति, न वा? यद्यस्ति; तर्हि सृष्टिकालेपि स्थितिप्रलयप्रसङ्गोऽविकलकारणत्वादुत्पाद्वत् । एवं स्थितिकालेप्युत्पादविनाशयोः, विनाश काले च स्थित्युत्पादयोः प्रसङ्गः, न चैतद्युक्तम् । न खलु पर२५ स्परपरिहारेणावस्थितानामुत्पादादिधर्माणामेकत्र धर्मिण्येकदा सद्भावो युक्तः । अथ नास्ति सामर्थ्यम् ; तदैकमेव स्थित्यादिनां मध्ये कार्य सदा स्यात् यदुत्पादने तयोः सामर्थ्यमस्ति, नापरं कदाचनापि तदुत्पादने तयोः सदा सामर्थ्याभावात्। अविकारि णोश्च प्रकृतीश्वरयोः पुनः सामोत्पत्तिविरोधात्, अन्यथा ३० नित्यैकस्वभावताव्याघातः। अथ तत्स्वभावेपि प्रधाने सत्त्वादीनां मध्ये यदेवोद्भूतवृत्ति तदेव कारणतां प्रतिपद्यते नान्यत् , तत्कथं स्थित्यादीनां योगपद्य १ प्रसव उत्पत्तिः। २ ईश्वरः कर्ता । ३ न जायते इत्यजो रुद्रस्तस्मै । ४ त्रयी वेदास्त्रयी। ५ सत्त्वरजस्तमोरूंपाय । ६ स्थितिप्रलयौ धर्मिणौ सृष्टिकाले भवतः तदा अविकलकारणत्वात् । ७ प्रजालक्षणे। ८ सामर्थ्यमुत्पद्यते चेत् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy