________________
सू० २।८-९] आलोककारणतावादः
२३९ मन्दम्' इति लोकव्यवहारः किं काकैर्भक्षितः ? अत्रास्याऽप्रमाणत्वेऽन्यत्र कः समाश्वासः ? ननु वहिर्देशादागत्य गृहान्त प्रविष्टस्य सत्यप्यालोके तमःप्रतीतेन पारमार्थिकं तत्, न चालोकतमसो. विरुद्धयोरेकत्रावस्थानम् , ततो ज्ञानानुत्पत्तिमात्रमेव तदिति चेत्, तर्हि नक्तञ्चरादीनामेव (वं) विवरादी प्रदीपाद्यालोकाभावेपि ५ तत्प्रतीतेः लोपि परमार्थिको न स्यात् । न चैकत्र तमोऽभावेपि तत्प्रतीते सर्वत्र तदभावो युक्तः, अन्यथाऽर्थानापि कचित्तत्प्र. तीतेः सर्वत्र तदभावः स्यात् । तस्मादालोकवत्तमोपि प्रतीतिसिद्धम् । तत्र चालोकामावेपि ज्ञानोत्पत्तिप्रतीतेः । न च तत्प्रति तस्यै कारणता । तन्नार्थालोकयोनि प्रति कारणत्वम् ।
एँवं तर्हि तत्तयोः प्रकाशकमपि न स्यादित्याह___अतजन्यमपि तत्प्रकाशकम् ॥ ८॥ ताभ्यामर्थालोकाभ्यामजन्यमपि तयोः प्रकाशकम् । अत्रैवार्थे प्रदीपवदित्युभयप्रसिद्धं दृष्टान्तमाह
प्रदीपवत् ॥ ९॥ न खलु प्रकाश्यो घटादिः स्वप्रकाशकं प्रदीपं जनयति, खका. रणकलापादेवास्योत्पत्तेः। 'प्रकाश्याभावे प्रकाशकस्य प्रकाशकत्वायोगात्स तस्य जनक एव' इत्यभ्युपगमे प्रकाशकस्याभावे प्रकाश्यस्यापि प्रकाश्यत्वाघटनात् सोपि तस्य जनकोऽस्तु । तथा चेतरेतराश्रयः-प्रकाश्यानुत्पत्तौ प्रकाशकानुत्पत्तेः, तदनु-२० त्पत्तौ च प्रकाश्यानुत्पत्तेरिति । स्वकारणकलापादुत्पन्नयोः प्रदी. पघटयोरन्योन्यापेक्षया प्रकाश्यप्रकाशकत्वधर्मव्यवस्थाया एव प्रसिद्धेर्नेतरेतराश्रयावकाश इत्यभ्युपगमे ज्ञानार्थयोरपि स्वसामग्रीविशेषवशादुत्पन्नयोः परस्परापेक्षया ग्राह्यग्राहकत्वधर्मव्यव. स्थाऽऽस्थीयताम् । ३तं प्रतीत्यपलापेन।
२५ ननु चाजनकस्याप्यर्थस्य ज्ञानेनावगतौ निखिलार्थावगतिप्रसझात्प्रतिकर्मव्यवस्था न स्यात् । 'यद्धि येतो ज्ञानमुत्पद्यते तत्तस्यैव ग्राहकं नान्यस्य' इत्यस्यार्थजन्यत्वे सत्येव सा स्यादिति वदन्तं प्रत्याह
१ तमसि । २ नरस्य । ३ तमसोऽभावेपि तमःप्रतीतिप्रकारेण । ४ एकत्राभावे सर्वत्राभावो यदि । ५ तमसि। ६ तमसः। ७ अर्थालोकयोनिं प्रत्यकारणत्व. प्रकारेण । ८ स्वरूप । ९ अभ्युपगम्यताम् । १० अलमित्यर्थः। ११ प्रतिनियतविषयव्यवस्था । १२ अर्थात् ।