SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ २३८ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० प्यग्निजन्य न स्यात्, तद्व्यतिरेकेणान्यस्य तव्यवस्थापकस्याभा. वादिति चेत्, किं पुनरन्धकारावस्थायां ज्ञानं नास्ति? तथा चेत कथमन्धकारप्रतीतिः ? तदन्तरेणापि प्रतीतावन्यत्रापि ज्ञानकला. नानर्थक्यम् । 'प्रतीयते, ज्ञानं नास्ति' इति च खवचनविरोधः ५प्रतीतेरेव ज्ञानत्वात्। अथान्धकाराख्यो विषय एव नास्ति यो ज्ञानेन परिच्छिद्येत. अन्धकारव्यवहारस्तु लोके ज्ञानानुत्पत्तिमात्र इत्युच्यते; यद्येवं. मालोकस्याप्यभावः स्याद्विशदज्ञानव्यतिरेकेणान्यस्यास्याप्यप्र. तीतेः । तद्व्यवहारस्तु लोके विशदज्ञानोत्पत्तिमात्रः। ननु ज्ञानस्य १० वैशद्यमेव तदभावे कथम् ? इत्यप्यज्ञचोद्यम्; नक्तञ्चरादीनां रूपेऽस्मदादीनां रसादौ च तदभावेपि तस्य वैशद्योपलब्धेः। आलोकविषयस्य च ज्ञानस्यात एवालोकाद्वैशद्यम् , तदन्तराद्वा, अन्यतो वा कुतश्चित् ? यद्यन्यतः, न तालोककृतं वैशद्यम् । न हि यद्यदभावेपि भवति तत्तत्कृतमतिप्रसङ्गोत् । अथालोकान्तरात १५ तद्विषयस्यापि तस्यालोकान्तरात्तंदित्यनवस्था । न चालोकान्तर मस्ति । अथामादेवालोकात्; खविषयादेव तर्हि वैशद्यम् , तथा घटादिरूपादप्यस्तु । तस्याभासुरत्वान्नातस्तत् । इत्यप्ययुक्तम् । व. हलाम्धकारनिशीथिन्यां नक्तञ्चरादीनां तत्र वैशद्याभावप्रसङ्गात् । 'विशदं प्रत्यक्षम्' इत्यत्र चोक्तं वैशद्यकारणम् । यद्येवं प्रदीपायु२० पादानमनर्थकं तदन्तरेणापि ज्ञानोत्पत्तिप्रसङ्गात् । नाऽनर्थकम्, आवरणापनयनद्वारेण विषये ग्राह्यतालक्षणस्य विशेषस्य इन्द्रियमनसोर्वा तज्ज्ञानजनकलक्षणस्यातोऽअनादेरिवोत्पत्तेः । न चैतावता तस्य तत्कारणता; काण्डपटाद्यावरणापनेतुर्हस्तादेरपि तत्त्वप्रसङ्गात् । ततो यथा ज्ञानानुत्पत्तिव्यतिरेकेण नान्यत्तमः २५ तथा विशदज्ञानोत्पत्तिव्यतिरेकेणालोकोप्यन्यो न स्यात् । ननु 'अत्र प्रदेश बहल आलोकोऽत्र च मन्दः' इति लोकव्यवहारादन्यः सोस्तीति चेत्, तर्हि 'गुहागहरादो बहलं तमोन्यत्र १ अन्वयव्यतिरेकव्यतिरेकेण । २ कार्यकारणभावव्यवस्थापकस्य । ३ अन्धकारस्य । ४ घटादिविषये । ५ अर्थः । ६ परेण भवता । ७ ज्ञानानुत्पत्तिमात्रान्धकारप्रकारेण । ८ प्रकृतशानविषयात् । ९ खराभावेपि जायमानो धूमः खरहेतुकोन्यथा स्यात् । १० वैशधम् । ११ प्रथमालोकादेव । १२ विज्ञानस्य । १३ घटादिज्ञानवैशद्यम् , ततश्च किमालोकपरिकल्पनेन । १४ आवरणप्रक्षयः। १५ तमः । १६ सप्तमीद्विः । १७ प्रदीपादिना मनोलोचनस्यार्थस्य च स्वविशेषजननेपि। १८ वैशधकारणत्व। १९ नैनमते । २० विशंदञ्चानोत्पत्तः सकाशात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy