________________
सू० २।४] विशदत्वविचारः
२१९ प्रथमपक्षोऽयुक्तः, तत्स्वरूपस्याविकलस्यानुभवात् । द्वितीयपक्षे तु योग्यतासिद्धिः; भावेन्द्रियाख्यक्षयोपशमलक्षणयोग्यताव्यतिरेकेणाक्षशक्तेरव्यवस्थितेः । तल्लक्षणाचाक्षात्स्पष्टत्वाभ्युपगमेऽस्मैन्मतप्रसिद्धिः।
आलोकोप्येतेन तद्धेतुः प्रत्याख्यातः । ततः स्थितमेतद्विश-५ दज्ञानस्वभावं प्रत्यक्षमिति । ननु किमिदं ज्ञानस्य वैशधं नामेत्याह अव्यवधानेनेत्यादि । प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा
प्रतिभासनं वैशद्यम् ॥ ४॥ तुल्यजातीयापेक्षया च व्यवधानमव्यवधानं वा प्रतिपत्तव्यं न १० पुनर्देशकालाद्यपेक्षया । यथा 'उपर्युपरि स्वर्गपटलानि' इयंत्रान्योन्यं तेषां देशादिव्यवधानेपि तुल्यजातीयानामपेक्षाकृता प्रत्या सत्तिः सामीप्यमित्युक्तम् , एवमत्राप्यव्यवधानेन प्रमाणान्तर्रनिरपेक्षतया प्रतिभासनं वस्तुनोऽनुभवो वैशा विज्ञानस्येति ।
नन्वेवमीहादिज्ञानस्यावग्रहाद्यपेक्षत्वाव्यवधानेन प्रतिभासन-१५ लक्षणवैशद्याभावात्प्रत्यक्षता न स्यात् तदसारम् ; अपरापरेन्द्रियव्यापारादेवावग्रहादीनामुत्पत्तेस्तत्र तदपेक्षत्वासिद्धेः । एकमेव चेदं विज्ञानमवग्रहाद्यतिशयवदपरापरचक्षुरादिव्यापारादुत्पन्नं सत्स्वतन्त्रतया स्वविषये प्रवर्तते इति प्रमाणान्तरांव्यवधानमत्रीपि प्रसिद्धमेव । अनुमानादिप्रतीतिस्तु लिङ्गादिप्रतीत्यै जनिता सती २० खविषये प्रवर्त्तते इत्यव्यवधानेन प्रतिभासनाभावान्न प्रत्यक्षेति । ततो निरवद्यमेवंविधं वैशा प्रत्यक्षलक्षणम्, साकल्येनाखिलाध्यक्षव्यक्तिषु सम्भवेनाव्याप्त्यसम्भवदोषाभावात् । अतिव्याप्तिस्तु दूरोत्सारितैव अध्यक्षत्वानभिमते क्वचिदप्येतल्लक्षणस्यासम्भवात् ।
१ ( लब्ध्युपयोगी भावेन्द्रियमिति सूत्रकारवचनन् । लब्धिर्हि इन्द्रियस्थानप्राप्तात्मप्रदेशानां तदावरणकर्मक्षयोपशमरूपा)। २ ज्ञानस्य । ३ जैनमतसिद्धिः । ४ अक्षस्य स्पष्टताहेतुनिराकरणपरेण ग्रन्थेन। ५ समर्थितम् । ६ उदाहरणे । ७ ज्ञाने। ८ अनुमानं प्रमाणान्तरेण लिङ्गज्ञानेन जायते इति तद्वयुदासायैतत्पदम् । ९ मतिज्ञानम् । १० अवग्रहादिरूपस्य । ११ ईहादिमतिञ्चाने। १२ न प्रत्यक्षप्रतीत्या। १३ लिङ्गादिप्रतीत्या व्यवधानात् । १४ अव्यवधानेन प्रतिभासनलक्षणन् । १५ अनुमानादौ।