SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ २१८ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तावत् । तस्याः विषयधर्मत्वे सर्वदा तथा प्रतिभालप्रसा त्कुतः प्रतिभासपरावृत्तिः? न चास्पष्टसंवेदनं निर्विषयमेव. संवादकत्वात्स्पष्टसंवेदनवत् । क्वचिद्विसंवादात्सर्वत्रास्य विसं. वादे स्पष्टसंवेदनेपि तत्प्रसङ्गः। ततो नैतत्साधु५ "वुद्धिरेवातर्दाकारा तँत उत्पद्यते यदा। तदाऽस्पष्टप्रतीभासव्यवहारो जगन्मतः॥" [प्रमाणवार्त्तिकालं० प्रथमपरि०] द्विचन्द्रादिप्रतिभीसेपि तद्व्यवहारानुषङ्गाच्च । स्पष्टप्रतिभासेन. बांध्यमानत्वादस्य निर्विषयत्वमन्यत्रापि समानम् । यथैव हि १० दूरादस्पष्टप्रतिभासविषयत्वमर्थस्यारीत्स्पष्टप्रतिभासेन बाध्यते तथा सन्निहितार्थस्य स्पष्टप्रतिभासविषयत्वं दूरादस्पष्टप्रतिआसेन, अविशेषात्। ननु विषयिधर्मस्य विषयेषूपचारात्तत्र स्पष्टास्पष्टत्वव्यवहारे विषयिणोपि ज्ञानस्य तद्धर्मतासिद्धिः कुतः? स्वज्ञानस्पष्टत्वास्प२५ ष्टत्वाभ्याम् , स्वतो वा? प्रथमपक्षेऽनवस्था। द्वितीयपक्षे त्वविशेषेणाखिलज्ञानानां तद्धर्मताप्रसङ्गः, इत्यप्यसमीचीनम्। तत्रान्यथैव तद्धर्मताप्रसिद्धः । स्पष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषाद्धि क्वचिद्विज्ञाने स्पष्टता प्रसिद्धा, अस्पष्टज्ञानावरणादिक्षयोपशमविशेषात्त्वस्पष्टतेति । प्रसिद्धश्च प्रतिवन्धकापायो ज्ञाने २० स्पष्टताहेतू रजोनीहाराद्यावृत्ता(ता)र्थप्रकाशस्येव तद्वियोगः। अक्षात्स्पष्टता इत्यन्ये, तेषां दविष्टंपादपादिज्ञानस्य दिवोलुकादिवेदनस्य च तत्प्रसङ्गः । तदुत्पादकाक्षस्यातिदूरदेशदिनकर करनिकरोपहतत्वाद्दोषोयमिति; अत्रोप्यक्षस्योपघातः,शक्तेर्वा ? १ अस्पष्टतया । २ गृहीतार्थाव्यभिचारित्वात् । ३ अस्पष्टसंवेदनं सालम्बनं सिद्धं यतः। ४ शानम्। ५ एवकारोत्र भिन्नप्रक्रमे । तेनातदाकारेत्यस्यानन्तरं द्रष्टव्यः। बुद्धिर्विषयादुत्पद्यते चेत् तदा अतदाकारा कथमिति चेदुच्यते । एकत्वेन व्यवस्थिताचन्द्रलक्षणादर्थादुत्पद्यमाना वुद्धिर्यदा द्वित्वमवभासयति एकत्वं नावभासयति तदा अतदाकारा सती अस्पष्टव्यपदेशमर्हति । ६ अविषयाकारा । ७ विषयात् । ८ एतस्य तु स्पष्टत्वमभ्युपगतं वौद्धेन। ९ अतदाकारत्वं यतो बुद्धेः। १० स्पष्टसंवेदनेपि । ११ समीपे । १२ बाधाऽबाधत्वस्योभयत्रापि । १३ स्वयोः स्पष्टास्पष्टशानयोहके च ते शाने च तयोः स्पष्टत्वास्पष्टत्वाभ्याम् । १४ प्रत्यक्षातुमानानाम् । १५ उक्तविपर्ययेणैव । स्वशानस्य स्पष्टत्वास्पष्टत्वेनैव । १६ वीर्य शक्तिः । शानस्य वीर्यस्य चावरणमवरोधकं कर्म । १७ अंशतः क्षयोपशमो भवति न सर्वतः। १८ प्रतिबन्धकोत्रावरणम् । १९ संवेदनस्य विशदत्वम् । २० मीमांसकाः। २१ अतिदूर । २२ परिहारे।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy