________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २०७ न्तरस्वभावाभावग्राहकतयेन्द्रियैर्जनितत्वात्प्रत्यक्षमेव । ततो निराकृतमेतत्-"न तावदिन्द्रियेणैषा" इत्यादि, “वस्त्वसङ्करसि. द्धिश्च तत्प्रामाण्यं समाश्रिता” इत्यादि च; तस्याः प्रत्यक्षादिप्रमाणत एव प्रसिद्धः । कथं ततोऽभावपरिच्छित्तिरिति चेत्, कथं भावस्यें ? प्रतिभासाच्चेदितरत्र समानम् । न खलु प्रत्यक्षे-५ णान्यसंसृष्टः प्रथमतोऽर्थोऽनुभूयते, पश्चादभावप्रमाणादन्यांसं. सृष्ट इति क्रमप्रतीतिरस्ति, प्रथममेवान्यासंसृष्टस्यार्थस्याध्यक्षे प्रतिभासनात् । न चान्यासंसृष्टार्थवेदनादन्यत्तभाव वेदनं नाम ।
एतेनैतदपि प्रत्युक्तम् "स्वरूपपररूपाभ्याम्" इत्यादिः सर्वैः सर्वदोभयकैपस्यैवान्तवहिर्वाऽर्थस्य प्रतिसंवेदनात् , अन्यथा तद-१० भावप्रसङ्गात् ।
यदप्युक्तम्-"यस्य यत्र यदोद्भूतिः" इत्यादि; तदप्ययुक्तम् । न हनुभूतमनुद्भूतं नाम । नापि जिघृक्षाप्रभवं सर्वज्ञानम् । इन्द्रियमनोमात्रभावे भावात्तदभावे चाभावात्तस्य ।
यच्चान्यदुक्तम्-"मेयो यद्वदभावो हि" इत्यादिः तत्र 'भावरू-१५ पेण प्रत्यक्षेण नाभावो वेद्यते' इति प्रतिज्ञा अन्यासंसृष्टभूतलग्राहिणा प्रत्यक्षेण निराक्रियते अनुष्णाग्निप्रतिज्ञावत् । 'भावात्मके यथा मेये' इत्याद्यप्ययुक्तम्; अभावादपि भावप्रतीतेः, यथा गगनतले पत्रादीनामधःपाताभावाद्वायोरिति । भावाचायादेः शीताभावस्य प्रतीतिः सकलजनप्रसिद्धा । 'यो यथाविधः स २० तथाविधेनैव गृह्यते' इत्यभ्युपगमे चाभावस्य मुद्गरीदिहेतुत्वा
१ अभावस्य प्रत्यक्षतो ग्रहणं सिद्धं यतः । २ नास्तीत्युत्पाद्यते मतिः । भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि । ३ अभावग्राहकतायाः। ४ प्रत्यक्षादिप्रमाणात्तव मते परिच्छित्तिः। ५ घटेन। ६ भूतललक्षणः। ७ अन्यसंसृष्टशानानन्तरम् । ८ घटेन । ९ एकदैवोभयरूपार्थविषयतयानुभूयमानं ज्ञानं कथमितरांशेऽनुद्भतमिति भावः। १० भूतललक्षणस्य । ११ भूतललक्षण। १२ नियं सदसदात्मके। वस्तुनि शायते किञ्चिद्रूपं कैश्चित्कदाचनेत्यन्तम् । १३ प्रमाणैः। १४ सदसदात्मकस्य । १५ ज्ञानस्य । १६ घटादेः। १७ उभयरूपार्थवेदनं न चेत् । १८ उभयरूपत्वादर्थस्य । १९ सदंशस्यासदंशस्य वा। २० वस्तुनि । २१ जिघृक्षा चोपजायते । वेद्यतेनुभवस्तस्य तेन च व्यपदिश्यते इत्यन्तम् । २२ प्रत्यक्षप्रतिपन्नम् । २३ अभाव. रूपम् । २४ मानम (अभावरूप) प्येवमिष्यताम् । भावात्मके यथा मेये नाऽभावस्थ प्रमाणता । तथैवाभावमेयेपि न भावस्थ प्रमागतेति च। २५ अभावोऽभावपरिच्छेद्यः तथाविषयत्वादिति वा प्रतिज्ञा। २६ गगनतले वायुरस्ति पत्रादीनामधःपाताभावान्यथान्यथानुपपत्तेः । २७ प्रतीतिः । २८ भावरूप ।