SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सू० २।२] अर्थापत्तेः अनुमानेऽन्तर्भावः १९५ ताया अर्थापत्तेस्तद्रहितार्थापत्तिः प्रमाणान्तरं स्यादिति प्रमाणसंख्याव्याघातः। अस्ति चार्थापत्तिः पक्षधर्मत्वरहिता "नेदीपूरोप्यधोदेशे दृष्टः सन्नुपरि स्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियमिकाम् ॥१॥ पित्रोच ब्राह्मणत्वेन पुत्रव्राह्मणतानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ २॥ एवं यत्पक्षधर्मत्वं ज्येष्ठं हेत्वङ्गमिष्यते । तत्पूर्वोक्तान्यं धर्मस्य दर्शनाद्व्यभिचार्यते ॥३॥" इत्यभिधानात् । नियमवतोऽर्थान्तरप्रतिपत्तेरविशेषात्तयोरभेदे स्वसाध्याविना-१०. भाविनोर्थादर्थान्तरप्रतिपत्तेरत्राप्यविशेषात्कथमनुमानादर्थापत्तेभेंदः स्यात् ? अथ विपक्षेऽर्नुपलम्भात्तस्यान्यथानुपपद्यमानत्वावगमः, न; पार्थिवत्वादेरप्येवं वसाध्याविनाभावित्वावगमप्रसङ्गात् विपक्षेनुपलम्भस्याविशेषात् , सर्वात्मसम्बन्धिनोऽनुपलम्भस्यासिद्धानकान्तिकत्वाञ्च । नन्वेवं सकलानुमानोच्छेदः, अस्तु नाम १५ तस्यायम् यो भूयोदर्शनाद्विपक्षेऽनुपलम्भाद्व्याप्तिं प्रसाधयति नास्माकम् , प्रमाणान्तराँत्तत्प्रसिधभ्युपगमाद् । भैवतोपि ततस्तदभ्युपगमे प्रमाणसंख्याव्याघातः। नैनु वह्निस्वरुपस्याध्यक्षत एव प्रसिद्धस्तदतिरिक्तातीन्द्रियशतिसद्भावे प्रमाणाभावात्कथं तत्रार्थापत्तेः प्रामाण्यम् ? निजा हि २०. १ हेतोाप्यवृत्तित्वं पक्षधर्मत्वम् । २ उपरि वृष्टो देवो नदीपूरदर्शनान्यथानुपपत्तरित्येतस्य अपक्षधर्मत्वं भिन्नदेशत्वात् । यत्र देशे वृष्टिस्तत्र नदीपूरो न । यत्र नदीपूरस्तत्र वृष्टिर्न । अत्र पक्षः उपरिदेशः। ३ पुनः । ४ व्याप्यः। ५ व्यापिकाम् । ६ पुत्रो ब्राह्मणः-पित्रोर्ब्राह्मण्यान्यथानुपपत्तेः । ७ अनुमा अर्थापत्तिः । अप्रत्यक्षा नो बुद्धिरित्याद्यभिधानात् । ८ उक्तप्रकारेण । ९ अन्यस्य पक्षाव्यतिरिक्तस्य धमों नदीपूरः पितृब्राह्मण्यं च । पूर्वोक्तो नदीपूरादिः स चासावन्यधर्मश्च तस्य । १० यो यो हेतुः स स पक्षधर्मत्वसहित इत्यस्य व्यभिचारः । पक्षधर्मरहितोपि हेतुर्विद्यते यतः । ११ स्फोटात्पूराच्च । १२ पक्षधर्मसहितासहितार्थापत्योः । १३ लिङ्गात्पूराच्च । १४ अग्निवृष्टयोः । १५ अनुमानेऽर्थापत्तौ च । १६ आकाशे लोहलेखित्वस्याभावात् । १७ दाहस्य । १८ इति चेन्न। १९ साधनस्य । २० अलोहलेख्ये आकाशलक्षणे विपक्षे पार्थिवत्वस्यानुपलम्भप्रकारेण । २१ वज्रस्य लोहलेखित्व। २२ गगने । २३ विपक्षेनुपलम्भः सर्वसम्बन्धीत्यादिप्रकारेण । २४ परः । २५ दृष्टान्ते । २६ जनानाम्। २७ ऊहात् । २८ मीमांसकस्य । २९ नैयायिकः । ३० वहित्वस्य। ३१ स्वरूपातिरिक्त ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy