________________
१९०
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
भावस्याभावादावानाणवैयार्थ्यम्, कारणादिविभागतो व्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । उक्तंच--
"न च स्याद्व्यवहारोयं कारणादिविभागतः । प्रागभावादिभेदेन नाभावो यदि भिद्यते ॥ १॥"
[मी० श्लो० अमाव० श्लो०७] प्रागभावादिभेदान्यथानुपपत्तेश्चास्यार्थापत्या वस्तुरूपतावसीयते । उक्तंच
"न चावस्तुन ऍते स्युभदास्तेनास्य वस्तुतः । कार्यादीनाममायः को श्रावो यः कारणादिनः(ना) ॥१॥"
मी० श्लो० अभाव० श्लो०८] अनुमानावसेया चास्य वस्तुता । यदाह"यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्वादिवद्वस्तु प्रमेयत्वाच्च गृह्यताम् ॥ १॥”
[मी० श्लो० अभाव० श्लो०९] १५ चतुःप्रकारश्चाभावो व्यवस्थितः-प्राक्प्रध्वंसेतरेतराऽत्यन्ता भावमेदात् । उक्तं च
"वस्त्वऽसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता। क्षीरे ध्यादि यन्नास्ति प्रागभावः स उच्यते ॥१॥ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोन्योन्याभाव उच्यते ॥२॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥३॥"
[मी० श्लो० अभाव० श्लो० २-४] यदि चैतेषां व्यवस्थापकमभावाख्यं प्रमाणं न स्यात्तदा प्रति२५ नियतवस्तुव्यवस्थाविलोपः स्यात् । तदुक्तम्
"क्षीरे दधि भवेदेवं दनि क्षीरं घटे पटः। शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तितात्मनि ॥
१ अन्यथा। २ क्षीर। ३ कार्य दधि। ४ प्रागभावादिकृतः कारणांदिविभागः। ५ लोकप्रतीतः। ६ [अभावप्रमाणमन्तरेण । ७ प्रागभावादयः । ८ कारगेन । ९ स्वरूपादीनां च। १० अथवाऽर्थापत्त्यपेक्षया। ११ अभावो वस्तुरूपो भवति अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वाद्गवादिवत्प्रमेयत्वाच्च तद्वत् । १२ शशस्यः । १३ कालत्रये।