________________
सू० २१२ अभावविचारः
१८९ दर्शनस्य परार्थत्वादित्यस्मिन्नभिधास्यते । प्रमाणाभावनिर्णीतचैत्राभाव विशेपितात् ॥४॥ गेहाच्चैत्रवहिर्भावसिद्धिर्यात्विह दर्शिता। तामभावोत्थितामन्यमापत्तिमुदाहरेत् ॥ ५॥"
मी० श्लो० अर्था० श्लो० ४-९] इत्यादि । ५ तथाऽभावप्रमाणमणि प्रमाणान्तरम् । तद्धि नियाधारवस्तुग्रहणादिसामग्रीतस्विंप्रकारमुत्पन्नं सत् कचित्प्रदेशादौडादीनामभावं विभावयति । उक्तं च
"गृहीत्वा वस्तुसद्धावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥
[मी० श्लो० अभाव० श्लो० २७] "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥"
[मी० श्लो० अभाव० श्लो० ११] "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता॥"
[मी० श्लो० अभाव० श्लो० १] इति । न चाध्यक्षेणाभावोऽवसीयते; तस्याभावविषयत्वविरोधात्, भावांशेनैवेन्द्रियाणां सम्बन्धात् । तदुक्तम्
“न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः। भावांशेनैव सम्वन्धो योग्यत्वादिन्द्रियस्य हि ॥"
मी० श्लो० अभाव० १८] इति । नाप्यनुमानेनौसौ साध्यते; हेतोरभावात् । न च विषयभूतस्या
१ अभिधानान्यथासिद्धेरिति यदुक्तं तत्समर्थनीयमित्युक्ते आह । २ उच्चारणस्य । ३ 'शिष्यार्थत्वात् । ४ स्वग्रन्थापेक्षयाग्रे वक्ष्यमाणग्रन्थे। ५ अर्थापत्तिनिरूपणप्रस्तावे। ६ प्रमाणपञ्चकाद्भिन्नाम् । ७ भाष्यकारः। ८ घटादि । ९ शुद्धभूतल । १० निषेध्यस्मरणमुपलब्धिलक्षणप्राप्तस्य घटादेरनुपलम्भश्च । ११ अभावप्रमाणसामग्रीतः। १२ त्रिप्रकारमित्येतत्पदं प्रत्यक्षेत्यादिनाऽऽह। १३ भूतले। १४ आदिपदेन काले। १५ बाह्येन्द्रियानपेक्षया। १६ स्वरूपम् । १७ प्रमाणपञ्चकरूपलेनाभावप्रमाणस्य । १८ प्रसज्यप्रतिषेधोत्र। १९ जीवस्य प्रमाणपञ्चकरूपतया। २० स्वरूपम्। २१ पर्युदासोत्र। २२ भुवि । घटांशलक्षणे । २३ पटांशास्तित्वावबोधार्थम् । २४ अनुमानापेक्षया। २५ कारणादेः प्रागभावादिना विभागः कृतः। अभाव इति वा। २६ पदार्थस्य ।