SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [प्रथमपरि० चोदनाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहिताचोदनावाक्यादुपजायमाना लिङ्गास्तोत्यक्षवुद्धिंवत्स्वतः प्रमाणम् । तदुक्तम् "चोदनाजानिता बुद्धिः प्रमाणं दोषवर्जितैः ।। कारणैर्जन्यमानत्वाल्लिङ्गाप्तोत्यक्षवुद्धिवत् ॥१॥" ५ [मी० श्लो० सू० २ श्लो० १८४] तन्न ज्ञप्तौ परापेक्षा। नापि वकार्ये; तत्रापि हि किं तत्संवादप्रत्ययमपेक्षते, कारणगुणान् वा? प्रथमपक्ष चक्रकप्रसङ्गः-प्रमाणस्य हि स्वकार्ये प्रवृत्तौ सत्यामर्थक्रियार्थिनां प्रवृत्तिः, तस्यां चार्थक्रियाज्ञानोत्पत्ति १० लक्षणः संवादः तत्सद्भावे च संवादमपेक्ष्य प्रमाणं स्वकार्येऽर्थपरिच्छेदलक्षणे प्रवर्त्तत । भाविनं संवादप्रत्ययमपेक्ष्य तत्तत्र प्रवर्तते; इत्यप्यनुपपन्नम् । तस्यासत्त्वेन स्वकार्ये प्रवर्त्तमानं विज्ञानं प्रति सहकारित्वायोगात्।। द्वितीयपक्षेऽपि गृहीताः स्वकारणगुणाः तस्य स्वकार्य प्रवर्त. १५मानस्य सहकारित्वं प्रतिपद्यन्ते, अगृहीता वा ? न तावदुत्तरः पक्षः; अतिप्रंसगात् । प्रथमपक्षेऽनवस्था-स्वकारणगुणज्ञानापेक्षं हि प्रमाणं खकार्ये प्रवर्तेत तदपि स्वकारणगुणज्ञानापेक्षं प्रमाणकारणगुणग्रहणलक्षणे स्वकार्ये प्रवर्तेत तदपि च स्वकारणगुणज्ञानापेक्षमिति । तस्य स्वकारणगुणज्ञानानपेक्षस्यैव प्रमाणकारण२० गुणपरिच्छेदलक्षणे खकार्य प्रवृत्तौ प्रथमस्यापि कारणगुणज्ञाना नपेक्षस्यार्थपरिच्छेदलक्षणे खकार्ये प्रवृत्तिरस्तु विशेषाभावात्। तदुक्तम् "जातेपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत्कारणशुद्धत्वं न प्रमाणान्तराद्गतम् ॥१॥ • १ वेद । २ इति गुणव्यापाराभावः। ३ प्रत्येकं सम्बध्यते। ४ स्वतः । ५ अनाप्तोक्तत्वलक्षण। ६ वेदवाक्यः। ७ संवादानुमान। ८ प्रामाण्यस्य । ९ परापेक्षं प्रामाण्यं न। १० प्रामाण्यं कर्तृ । ११ प्रामाण्यलक्षणस्य धर्मस्यात्रान्तर्भावाद्धर्मिप्रधानोयं निर्देशः। १२ अर्थपरिच्छित्तिरूपे । १३ नृणाम् । १४ अविद्यमानत्वेन । १५ अर्थपरिच्छित्तिलक्षणे । १६ प्रमाणस्य । १७ सन्तानान्तरलोचनगुणा अपि सहकारिणो भक्न्तु अगृहीतत्वाविशेषात् । १८ इन्द्रियनैमल्यादि । १९ भवचक्षुर्निर्मलमिति शब्दः परोक्ष इति । २० प्रमाणकारणगुणज्ञान । २१ शब्द। २२ आप्तोक्तत्व. लक्षण। २३ प्रमाणकारणगुणज्ञानस्य । २४ अनपेक्षत्वस्य । २५ प्रथमज्ञानस्य । २६ चक्षुः । २७ नैर्मल्यं । २८ शब्दज्ञानात् । २९ शातम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy